उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 137, कुल 439 में से
संदर्भ में पढ़ें११८ उत्तररामचरितं [ ५-२७ देवस्त्वां सविता धिनोतु समरे गोत्रस्य यस्ते पिता त्वां मैत्रावरुणोऽभिनन्दतु गुरुर्यस्ते गुरूणामपि । ऐन्द्रावैष्णवमाग्निमारुतमथो सौपर्णमोजोऽस्तु ते देयादेव च रामलक्ष्मणधनुर्ज्याघोषमन्त्रो जयम् ॥ २७ ॥ लवः—कुमार अति हि नाम शोभसे रथस्थ एव । कृतं कृतमत्या- दरेण । चन्द्रकेतुः—तर्हि महाभागोऽप्यन्यं रथमलङ्करोतु । लवः—आर्य प्रत्यारोपय रथोपरि राजपुत्रम् । सुमन्त्रः—त्वमप्यनुरुध्यस्व चन्द्रकेतोर्वचनम् । लवः—को विचारः स्वेषूपकरणेषु । किं त्वरण्यसदो वयमनभ्यस्तरथ- चर्याः । सुमन्त्रः—जानासि वत्स दर्पसौजन्ययोर्यथोचितमाचरितुम् । यदि पुन- स्त्वामीदृशमैक्ष्वाको राजा रामभद्रः पश्येत्तदा तस्य स्नेहेन हृदयमभिष्य- न्देत । लवः—आर्य सुजनः स राजर्षिः श्रूयते । ( सलज्जमिव । ) त्राणा प्रार्थ्यदादिकाळत ॥' इति स्मरणात् ॥ देवस्त्वां सवितेति ॥ २७ ॥ धिनोति प्रीणयतीति माठरः । मैत्रावरुणः वसिष्ठ । ते तव गुरूणां पित्रादीनाम् । गुरुः पुरोहित । 'अथागस्त्यवसिष्ठयोमैत्रावरुणिमैत्रावरुणः' इति वैजयन्ती । 'मङ्गलेष्वथो अथ' इति धरणि । इन्द्राविष्णोरिदं ऐन्द्रावै- ष्णवम् । अग्निमरुतोरिदं आग्निमारुतम् । सुपर्णस्येदं सौपर्णम् । ओजः तेज । ते तुभ्यम् । अस्तु । इन्द्राविष्णू इत्यादिश्रुतिसिद्धा । ज्याघोष एव मन्त्रः । जयं च देयादेव । रामलक्ष्मणेत्यनेन लवचन्द्रकेत्वोरुभयोरपि जय इत्यर्थात् सिद्धम् । अत्र त्वामिति एन(१)ते चैकं पुनरुक्तम् ॥ २७ ॥ अतिशो- भसे इति वक्तव्यमिति पृथक्कथनं प्रमाद इति कश्चित् । तन्न । 'अत्यन्तमति चैकान्तमशर्थम्' इति शब्दमालायां सात्तण्डेनाभिधानादतीति पृथक् प्रयोगो युज्यते । द्विगर उच्चारणव्रीडेर । नाम प्रसिद्धौ । रथमलमिति ध्वनिः । उपकरणेषु रथादिषु । 'साधनमुपकरणं सामग्री च परिच्छदः' इति रत्नाकर । अरण्ये सीदन्तीति अरण्यसदः । चर्या पदस्थिति । अनुपदे वयमपीत्यात्मनैवात्मा स्तूयत इति सङ्कोचवशात् सलज्जमियेत्युक्तम् ॥ यदि १ 'पतिः' न. २ 'ऐन्द्र वैष्णवम्' ग-घ. ३ 'यथाचरितम्' न.