उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 140, कुल 439 में से
संदर्भ में पढ़ें५-३५ ] उत्तररामचरितं १२१ यानि त्रीण्यपराङ्मुखान्यपि पदान्यासन्खरायोघने यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥ ३४ ॥ चन्द्रकेतुः—आः, तातापेवादभिन्नमर्याद, अति हि नाम प्रगल्भसे । लवः—अये मय्येव भ्रुकुटीमुखः संवृत्तः । सुमन्त्रः—स्फुरितमनयोः क्रोधेन । तथा हि । चूडामण्डलबन्धनं तरलयत्याकूतजो वेपथुः किञ्चित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः । धत्ते कान्तिमखण्डताण्डवितयोर्भङ्गेन वक्रं भ्रुवो श्चन्द्रस्योत्कटलाञ्छनस्य कमलस्योद्भ्रान्तभृङ्गस्य च ॥ ३५ ॥ कुमारौ—तदितो विमर्दक्षमां भूमिमवतरावः । ( इति निष्क्रान्ताः सर्वे । ) ॥ पञ्चमोऽङ्कः ॥ निति शेषः । दूषणविनाशाय । सुन्दरीणां तादृशा । हि प्रसिद्धौ । सोऽप्यध- ष्टदिति भावः । यानि त्रीणि पदानि पदक्षेपानि । पृष्ठं विमुखं (विमुखं!) मुखं नायं येषां तानि कुतोमुखान्यपि आसन् । तत्र तेषु पदेषु । जनो- ऽभिज्ञः पद्यानिवृत्त इति भावः । अत एव 'अपासर्पद्धनुर्मानम्' इति रामा- यणे । अथवा इन्द्रसूनुनिधने वालिसंहारे, यत् कौशलं तत्र तस्मिन् कौशलेऽपि । जनोऽभिज्ञः । वञ्चनया वालि संहारेति भावः । तत्रेलस्य एकत्र सन्निवेशोऽन्यत्रानुपङ्गः । सुन्दरीति कनडेषु ध्वनिः ॥ ३४ ॥ इति एवम् । भ्रुकुटीमुखं मुखं यस्य स भ्रुकुटीमुखः ॥ क्रोधेनोद्धतौ ॥ ३५ ॥ आवेगेन आगहेन उद्धतं यथा तथा धूतः बन्धित कुन्तलभारः यस्मिन् । वक्रं भ्रुवोर्भङ्गेन कौटिल्येन । उत्कटं मत्तं लाञ्छनं हरिणो यस्य तस्य चन्द्रस्य । उद्भ्रान्तः सभ्रान्त भृङ्गः यस्मिन् । तस्य कमलस्य च कान्तिं धत्ते इत्यनेन वक्रं चन्द्रकमलद्विम्बाकृतेर्धारित्वेन कवेस्तात्पर्यम् । न तु पद्मिना रुष्टिना वा विवक्षितं । अत एव 'किमिन्दुः किं पद्मं किमु मुकुरबिम्बं किमु मुखम्' इति विल्हणः ॥ ३५ ॥ विमर्दक्षमां युद्धयोग्याम् इति दिक् ॥ इति महाराजपद० घनश्यामपण्डितविरचिते उत्तररामचरित भावार्थनाट्यटि- प्पण्ये पञ्चमोऽङ्कः समाप्तः ॥ इति पञ्चमोऽङ्कः ॥ १ 'अप्रातोमयान्त्ये' प, 'अप्रातोऽन्यन्ये' न. २ 'तातापरादिन्' व. ३ 'र(' क-घ-य. ४ 'वेगेनोज्धूतकुकुन्दभारः सबाह्ली' न-टी. ५ 'कान्तिभेदं च वक्रनयनाभङ्गेन निरुद्ब्रुवोः' न.
- मदन' इत्यीकत्तनाम्रो शशाङ्कता यद्दानमुच्य कवेश्च दर्पणपद्मसन्देहद ॥ उ०