उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 142, कुल 439 में से
संदर्भ में पढ़ें६-४ ] उत्तररामचरितं १२३ विद्याधरी—ता किं णि उज अआण्डविस्फुरिदनडिच्छडाकडारं विअ गम्बरं झत्ति संवुत्तम् । तकिमिति पुनरकाण्डविस्फुरिततडिच्छटाकडारमिवा- म्बरं झटिति सवृत्तम् । विद्याधरः—तर्कि नु खल्वद्य त्वष्टृयन्त्रभ्रमिभ्रान्तमार्तण्डज्योतिरुज्ज्वलः । पुटभेदो ललाटस्थनीललोहितचक्षुषः ॥ ३ ॥ आं ज्ञातम् । जातक्षोभेण चन्द्रकेतुना प्रयुक्तमप्रतिरूपमक्षाम्याग्नेयम् । यस्यायमचिरात्सम्पातः । संप्रति हि । आश्चर्यम् । अवदग्धकर्बुरितकेतुचामरै- रपयात्येव हि विमानमण्डलैः । द॑हति ध्वजांशुकपट्टावलीमिमां नवकिंशुकद्युतिसविभ्रमः शिखी ॥ ४ ॥ प्रवृत्त एवायमुद्दण्डवज्रखण्डावस्फोटपटुरवस्फुलिङ्गगुरुश्चलत्तुमुललेलि- हानोज्ज्वलज्वालासंभारभैरव भगवानुपर्बुध । प्रचण्डश्चास्य सर्वतः सन्तापः । तन्प्रियामङ्गेनाच्छाद्य सुदूरमपसरामि । ( तथा करोति । ) ताण्डवितोद्धतरत्नटि च्छटाकटारमिव झडिति सवृत्तम् । 'उद्दण्ड' इति बहु- रूपाचको देशीयशब्द । 'इट्ण्ड' इति महाराष्ट्रा । 'छटा परम्परा' इति जय. ॥ त्वष्टृयन्त्रभ्रमीति ॥ ३ ॥ त्वष्टुः विश्वकर्मण । यन्त्रं शाणचक्रम् । तस्य भ्रम्या भ्रमणेन । भ्रान्तस्य मार्तण्डस्य । ज्योतिषा उज्ज्वलः । 'आकाशमक्षियाम्' इति रमम । नीललोहितस्य रुद्रस्य । चक्षुषः नेत्र- रुग्रामे । पुटभेदः । 'मृत्तिशाखपरे पुट ' इति निकाटी । 'मूख' इति महा- राष्ट्रा । तथा च गालपुटे आभेदाश्रमिदं नार्तण्डवत् रुद्रेनेनाग्निवहुस्सहर्मिति भाव ॥ ३ ॥ अप्रतिरूपं जयनिन्द्वम् । अचिरात् झटिति संपातः पतनं यस्य ॥ अवदग्धकर्बुरितेति ॥ ४ ॥ अवदग्धानि कर्बुरितानि उत्ताल- चित्रवर्णानि चामराणि येषु । किंशुकद्रुम इव सविभ्रमः मविलाम । अनेनारण्यं सूचितम् । शिखी अग्नि ॥ ४ ॥ खण्डावस्फोटैः शकलस्यै पटुः । उत्तालाः उद्धता । तुमुललोलाः रणझुल्त्वरा । लेलिहा- नाः ये उज्ज्वलाः तेषा संभारैः भैरवः उपर्बुधः अग्नि । 'उत्तार- १ 'त्वाष्ट्र' क-घ-प. २ 'अप्रतिरूपम्' इति नास्ति क-घ-च-पुस्तकेषु. ३ 'अग्निरुन्द्र' ग. ४ 'र्वरित' न. ५ 'दहती ध्वजांशुकपट्टनेविभाः यद्कुङ्कुमद्युतिविभ्रम शिखा' क-घ-च. ६ 'पटुतर' घ-च, 'पटुतरम्' न. ७ 'अनुशेन' न.