उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 147, कुल 439 में से
संदर्भ में पढ़ें३२८ उत्तररामचरितं [ ६-१३ विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥ १२ ॥ लवः-चन्द्रकेतो क एते । चन्द्रकेतुः-प्रियवयस्य ननु तातपादाः । लवः-ममापि तर्हि धर्मतस्तथैव । यत प्रियवयस्य इति भवतोक्तम् । किं तु बहवः खलु भवतामेवंव्यपदेशभागिनस्तत्रभवन्तो रामायणकथा- पुरुषाः । तद्विशेषं ब्रूहि । चन्द्रकेतुः-ननु ज्येष्ठतातपादा इत्यवेहि । लवः-( सोल्लासम् । ) कथं रघुनाथ एव । दिष्ट्या सुप्रभातम् अद्य यदयं देवो दृष्टः । ( सविनयकौतुकं निर्वर्ण्य । ) तात प्राचेतसान्तेवासी लवोऽभि- वादयते । रामः-आयुष्मन् एह्येहि । ( इति सस्नेहमालिङ्ग्य । ) अयि वत्स कृतं कृतमतिविनयेन । अनेनवारमपरिक्लथ्य परिष्वजस्व माम् । परिणतकठोरपुष्करगर्भच्छदपीनमस्सृणसुकुमार । नन्दयति चन्द्रचन्दननिष्यन्दजडस्तर स्पर्श ॥ १३ ॥ लवः-( स्वगतम् । ) ईदृशो मा प्रत्यमीषामकारणस्नेहः । मया पुन- रेभ्य एव द्रोद्धुमनेनायुधपरिग्रहः कृतः । ( प्रकाशम् । ) मृष्यन्त्विदानीं लवस्य बालिशतां तातपादाः । आन्तरः अन्तःकरणात्मको हेतुः । पदार्थान् प्रतिरूपान् । व्यतिषजति व्यतिषक्तान् सम्बद्धान् करोतीत्यर्थः । 'व्यतिषजन्ति सम्बध्नाति' इति श्रीनाथः । 'उपाधिस्तु निमित्ते च' इति हेमचन्द्रः । तत्रोदाहरणमाह-हीति । पतङ्गस्य रवेः । पुण्डरीकं सिताम्भोजम् । हिमरश्मौ चन्द्रे । उद्गते उदिते सति । चन्द्रकान्तशिला । द्रवती स्रवतीति माठरः । तथा च अतिदूरे रवौ चन्द्रेऽप्यु- दिते यथा पुण्डरीकं विकसति चन्द्रकान्तश्च द्रवति । तथैव केनाप्यान्तरहेतुना प्रीतयो वर्धन्त । नात्र निमित्तापेक्षेति भावः । 'प्रतिशब्दः प्रेम्णा च' इति वामनः ॥ १२ ॥ क एत इति पूजायां बहुवत्वम् । तथैव तातपादा इत्यर्थः । भवता- मिति पूजायाम् । युष्मच्छब्दश्चन्द्रकेतुप्रमुखानामिति च व्यज्यते । भवत इति च पाठः । एवं व्यपदेशः तातेति व्यवहारः स एव भागः येषामस्ति ते भागिनः । तत्रभवन्तः पूज्याः । 'व्यपदेशस्तु व्यवहारः' इति संसारावर्ते । तेषु विशेषम् । अपरिक्लथं दृढम् ॥ परिणतकठोरेति ॥१३॥ परिणत- १ 'अङ्गेन मामपरिक्लथे परिष्वजस्व' न. २ 'अभिद्रुग्धमनेन यदायुधपरिग्रह- मावद्बप्पास्ततो दुर्योग' क-घ-प.