उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 155, कुल 439 में से
संदर्भ में पढ़ें१३६ उत्तररामचरितं [ ६-३० मयैवादौ ज्ञातः करतलपरामर्शकलया द्विधा गर्भग्रन्थिस्तदनु दिवसैः कैरपि तया ॥ २८ ॥ (रुदित्वा) तत्किमेतौ पृच्छामि केनचिदुपायेन । लवः—तात किमेतत् । बाष्पवर्षेण नीतं वो जगन्मङ्गलमाननम् । अवश्यायावसिक्तस्य पुण्डरीकस्य चारुताम् ॥ २९ ॥ कुशः—अयि वत्स विना सीतादेव्या किमिव हि न दुःखं रघुपतेः प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति । स च स्नेहस्तावानयमपि वियोगो निरवधिः किमेवं त्वं पृच्छस्यनधिगतरामायण इव ॥ ३० ॥ रामः—( स्वगतम् । ) अये तटस्थै आलापः । कृतं प्रश्नेन । मुग्धहृदय कोऽयमाकस्मिकस्ते परिप्लवो विकारः । एवं च निर्भिन्नहृदयावेगः शिशु- स्फारिणौ दृशो नेत्रे यस्या । कलया चातुर्येण । 'ग्रन्थिर्मर्मणि' इति या- दव । तया सीतयेत्यर्थ ॥ २८ ॥ केनचित् अन्यापदेशेनेत्यर्थ ॥ बाष्प- वर्षेणेति ॥ २९ ॥ ते तव । 'बाल्ये सुतानां...त्वदाहारपूर्णा गिर' इति भो- जचरिते । जगतां मङ्गलं येन यस्माद्वा । अवश्यायैः हिमं । पुण्ड- रीकस्य हिममिव स्वन्मुखस्य बाष्पधारापि चारुतेति भाव । अनेन अ- नितरसाधारण सौन्दर्ये व्यज्यते । अत एव 'किमिव हि मधुराणा मण्डनं नाकृतीनाम्' इत्यस्यापत्यातशाकुन्तले । पुण्डरीकेति कथनात् पाण्डिमा लक्ष्यते । तथा च-'या दशा विरहे स्त्रीणां सैव पुंसामपि' इति काव्यचि- न्तामणौ ॥ २९ ॥ विना सीतादेव्या इति ॥ ३० ॥ सीतयेव देवी तया । 'देवी कृताभिषेकायाम्' इत्यमर । अरण्यमिव दुरुत्तरमित्यर्थः । यापि ...सस्नेह ह (१) तावान्या छेद इत्येवालम् । तथापि स्थितस्य गतिश्चिन्त- नीयेति न्यायात् । सः प्रसिद्ध । स्नेहः तावान् अगण्य इत्यर्थ ॥ अन- धिगतं रामायणं येन । अत्र प्रथमो हिकार पादपूरक इति कश्चित् । तन्न 'नहि नो नापीति' अमरसिंहेनाभिधानात् । द्वितीयस्तु प्रसिद्धवाचक । इत्थं किमिति भ्रान्त पाठ । बतेति साधु । अये इत्याश्चर्ये ॥ ३० ॥ तटस्थः षष्टत (?) अनेन ज्ञातोऽस्मीति भाव । आकस्मिकः अकस्माद्भव । परिप्लवः चपल । विनिर्भिन्नं भेदितं च यत् हृदयं तस्मिन् आवेगः १ 'अवश्यायाम्बुसिक्तस्य' घ. २ 'तटस्थस्त.' क-घ-प. ३ 'स्नेहस्तैरप्य.' क, 'संहृष्टापिक्षार' न.