उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 162, कुल 439 में से
संदर्भ में पढ़ें७-१] उत्तररामचरितं १४३ नुपनिमंत्रिताः सः । तद्गङ्गातीरमाभोगोपस्थानमुपगम्य क्रियतां समाज- संनिवेशः' इति । कृतश्च मर्त्यामर्त्यस्य भूतग्रामस्य समुचितस्थानसंनिवेशो मया । अयं तु— राज्याश्रमनिवासेऽपि प्राप्तकष्टमुनिव्रतः । वाल्मीकिगौरवादार्य इत एवाभिवर्तते ॥ १ ॥ ( ततः प्रविशति रामः ।) रामः—वत्स लक्ष्मण अपि स्थिता रङ्गमौढिकाः । लक्ष्मणः—अथ किम् । रामः—इमौ पुनर्बालौ कुशलवौ कुमारचन्द्रकेतुश्चैमां प्रतिपत्तिं लम्भ- यितव्यौ । लक्ष्मणः—प्रभुस्नेहप्रत्ययात्तथैव कृतम् । इदं चास्तीर्णं राजासनम् । तदुपविशत्वार्यः । रामः—( उपविशति । ) लक्ष्मणः—प्रस्तूयतां भोः । गङ्गाप्रवाहे निक्षिप्तवती इति तृतीयाङ्कविष्कम्भे तमसोक्तम् । संनिलादुपेति इत्यग्रे लक्ष्मणवचना स्फुटीभविष्यति चेति दिक् ॥ 'हतं वीणादिकम्' इत्यादि, 'वादिनातोद्यनामकं' इत्यन्तदमरः । 'वाजन्त्री' इति महा- राष्ट्राः । समाजः सभा । गत्वेति पूर्वमनुवादः । संप्रति स्वतः कथनमिति न पुनरुक्तिः ॥ राज्याश्रमेति ॥ १ ॥ राज्यमेव आश्रमः सौख्याभा- वादिति भावः । कष्टं च तन्मुनिव्रतम् । वाल्मीकिना वाल्मीकौ च गौरवात् ॥ १ ॥ 'रङ्गो नाट्यस्थलं' इति, 'सामाजिकः प्रेक्षकः' इति च त्रिकाण्डशेषः । प्रतिपत्तिः मर्यादा । वात्सल्यमिति यावत् । लम्भ- यितव्यौ प्रापणीयौ । प्रभोः स्नेहेन । प्रत्ययात् विश्वासात् । कुशलवयोः भवति स्नेहेन अस्मदीयानपि तयोर्विश्वासः अस्तीति भावः । तथैव चन्द्र- केतुवत् । कृतं वात्सल्यमिति शेषः । राजासनमास्तीर्णमिति कवेरिव कस्य न व्याचतुरचातुर्यम् । 'नृपासनं पत्तद्रासनं सिंहासनं च तत्' इत्यमर- सिंहेनाभिहिततया सिंहासनस्त्यारणत्वासंभवात् ॥ न च वाच्यमास्तरणो- चितनभ्यदासनं भवत्विति । तर्हि समानायकल्य महाराजत्वे जगत्वते इति गद्या वक्ष्यमाणे वचसि वास्तरवापत्तेः । तस्माद्बतरमूलगुरुक्यादानामेव १ 'तद्गङ्गातीरतीरमनोपस्थानम्' घ. २ 'स्थानेषु समुपवेशसङ्गो मया' घ. ३ 'प्रेक्षकाः' क-घ-घ. ४ '०स्तृती स्थानप्रतिपत्तिम्' क-घ-घ.