भारतकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 29, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 29

जामातुर्यज्ञेन वयं निरुद्धास्त्वं बाल एवासि नवं च राज्यम् । युक्तः प्रजानामनुरञ्जने स्यास्तस्माद्यशो यत्परमं धनं वः ॥११॥ रामः—यथा समादिशति भगवान्मैत्रावरुणिः। स्नेहं दयां च सौख्यं च यदि वा जानकीमपि । आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा ॥ १२ ॥ सीता—अदो जेव्व राहवकुलधुरंधरो अज्जउत्तो । अत एव राघवकुल- धुरंधर आर्यपुत्र । रामः—कः कोऽत्र भोः । विश्राम्यतामष्टावक्रः । अष्टावक्रः—( उत्थाय परिक्रम्य च । ) अये कुमारलक्ष्मणः प्राप्त । ( इति निष्क्रान्त ) प्रविश्य । लक्ष्मणः—जयति जयत्यार्यः । आर्य तेन चित्रकरिणास्मदुप- दिष्टमार्यस्य चरितमस्यां वीथिकायामभिलिखितम् । तत्पश्यत्वार्यः । वक्ष्यमाणम् । देवीभिः कौसल्यादिभिरित्यर्थ । भूयोभूयः पुनः पुनः । 'पुनर्भूयार्थयोर्भूय' इति संसारावर्त्तः 'भूयोभूयो नमाम्यहम्' इति प्राञ्च । 'दोहदं दोहदेऽपि स्यादिच्छायां गर्भकौतुके' इति विक्रमार्कः। यदि चेदित्यर्थ । ननान्दु रामभगिनीत्वाच्छान्ताया । पत्या भर्त्रा ॥ 'ननान्दा तु स्वसा पत्यु ' इत्यमर । ननान्दुरिति यथोक्त तथेल्यर्थ ॥ जामातुर्यज्ञेन वयमिति ॥ ११ ॥ यज्ञेनेति तृतीया । वयमिति मातरोऽहमरुन्धती च सर्वे वयमित्यर्थ । बालः कुमारः युवैवेत्यर्थ. । अत एव 'कौमारहर शचीदेव्या' इति नीलकण्ठः । 'बाल. कुमारे च' इति शब्दमञ्जरी । युवा त्वमेवासि इति च पाठ । यत् यस्मात्कारणात् । वः रघूणा युष्माकम् । स्वस्मात् आत्मनोऽपि । यशः प्रजा- नुरञ्जनरूपम् । परमं शाश्वतम् । धनं तद्युक्त. स्या दित्यर्थ । तथा च—'यौवनं धनसंपत्ति प्रभुत्वम्' इति विपत्त्रयं त्वयि जागति । तस्मादविवेकता मास्तु, साव- धानेन पथा सञ्चरस्तेनि भाव ॥११॥ 'वसिष्ठे च मैत्रावरुणि' इति हारावली । अगस्त्य इति पूर्वोत्तरसन्दर्भमूढ कोऽपि बभ्राम ॥ स्नेहं दयां चेति ॥ १२ ॥ यदि वा अथवा 'आहो उताहो यदिवा' इति रत्नमाला । जानकीमपीत्यादीनि वचनानि रामस्य भाव्यर्थसूचकानीति तत्र तत्र सूक्ष्मबुद्धिभिरवगन्तव्यम् ॥१२॥ अत एव राघवकुलधुरन्धरः । राघवेत्यत्र 'अनादिनामसंयुक्ताना रा-ध थ- ष-फ भो ह' इति हाथम् । 'श्रेष्ठौ धुर्या धुरन्धरा' इति मेदिनी । 'आलेख्यं वीथिका १ 'दद्याद् भगवान्' इति व-घ २ 'लोकस्य' इति ग-व-घ. ३ 'वीथ्याम्' इति क-ग.