भारतकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 60, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 60

२-१२] उत्तररामचरितं ४१ ( ततः प्रविशति पुष्पकरथः सद्योत्खातखड्गो रामः । ) रामः—हे¹ हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । रामस्य गात्रमसि निर्भरगर्भखिन्न- सीताविवासनपटोः करुणा कुतस्ते ॥ १० ॥ ( कथंचित्प्रहृत्य । ) कृतं रामसदृशं कर्म । अपि जीवेत्स ब्राह्मणपुत्रः । (प्रविश्य) दिव्यपुरुषः—जयतु जयतु देवः । दत्ताभये त्वयि यमादपि दण्डधारे सञ्जीवितः शिशुरसौ मम चेयमृद्धिः । शम्बूक एष शिरसा चरणौ नतस्ते सत्सङ्गजानि निधनान्यपि तारयन्ति ॥ ११ ॥ रामः—द्वयमपि प्रियं नः । तदनुभूयतामुग्रस्य तपसः परिपाकः । यत्रानन्दाश्च मोदाश्च यत्र पुण्याश्च सम्पदः । वैराजा नाम ते लोकास्तैजसाः सन्तु ते शिवाः ॥ १२ ॥ क्वचिन्ना प्राकृतभाषा परिहृतेति बोध्यम् ॥ सद्यं यथा तथा उत्खातः को- शादाकृष्टो राज्ञा येन ॥ हे हस्त दक्षिणेति ॥ १० ॥ द्विजस्य शिशोः ब्राह्मणपुत्रस्येति विशेषः । जीवातवे जीवनोपयाय ॥ ननु तपस्विनि कथं खड्गं विसृजामि इत्याशङ्क्याह-रामस्येति । गात्रं क्षत्रम् । 'अङ्गं च गात्रम्' इति त्रिकाण्डी । निर्भरं भृशम् । पटोरिति रामस्य विशेषणम् ॥ १० ॥ सदृशं योग्यं निर्दयमिति यावत् ॥ दत्ताभये त्वयीति ॥ ११ ॥ दण्डधारे शिक्षके । 'दण्डधारो महीपति' इति कामन्दकः । समृद्धिः दिव्या संप- दित्यर्थः । एषः अहमिति शेषः । 'मरणं निधनोऽस्त्रियाम्' इत्यमरः ॥ ११ ॥ द्वयं द्विजपुत्रजीवनं तव सञ्जीवेश्वर्यः । तत् तस्मात् । परिपाकः फलमिति यावत् ॥ यत्रानन्दाश्चेति ॥ १२ ॥ यत्र येषु लोकेषु । यत्र द्वयमा धातु- भेदादानन्दमोदानामवान्तरभेद ज्ञेयः । 'मनोज्ञपुतयोः पुण्यम्' इति नाम- निघानम् । विगतस्त ...... तत्संबन्धिनो वैराजास्ते प्रथमाबहुवचनम् । तैजसाः तेजोमयाः । शिवाः मङ्गलकरा । ते तुभ्यम् । सन्त्विति योज्यम् । पादपूरकमिति केचित् ॥ १२ ॥ युष्मत्प्रसाद एव उपादानं १ 'रे' क-घ-व. २ 'बाहु' न. ३ 'दुर्वह' क-घ-च. ४ 'फलम्' क-घ-व. ५ 'पुण्याभिसम्बन्धाः' ढ-घ. ६ 'सुरा.' घ-व.