उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 83, कुल 439 में से
संदर्भ में पढ़ेंरामः-इदं तावदशक्यमेव द्रष्टुम् । ( इत्यन्यतो रुदन्नुपविशति । ) सीता-सहि वासन्दि किं तुए किदं अज्जउत्तस्स मह अ एवं दंसअ- न्तीए। हद्धी हद्धी । सो जेव्व अज्जउत्तो तं जेव्व पञ्चवटीवणं सा जेव्व पियसही वासन्दी दे जेव्व विविहविस्सम्भसक्खिणो गोदावरीकाणणुद्देसा दे जेव्व जादणिव्विसेसा मिगपक्खिपादवा सा जेव्व चाहम् । मह उण मन्द- भाइणीए दीसन्तं वि सव्वं जेव्व एदं णत्थि त्ति सा ईरिसो जीवलोअस्स परिणामो संवुत्तो। सखि वासन्ति किं त्वया कृतमार्यपुत्रस्य मम चैतद्दर्शय- न्त्या । हा धिक् हा धिक् । स एवार्थपुत्रस्तदेव पञ्चवटीवनं सैव प्रियसखी वासन्ती त एव विविधविस्रम्भसाक्षिणो गोदावरीकाननोद्देशास्त एव जातनिर्वि- शेषा मृगपक्षिपादपा सैव चाहम् । मम पुनर्मन्दभाग्योया दृश्यमानमपि सर्वमे- वैतन्नास्तीति तदीदृशो जीवलोकस्य परिणाम संवृत्त' । वासन्ती-सखि सीते कथं न पश्यसि रामभद्रस्यावस्थाम् । नवकुवलयस्निग्धैरङ्गैर्ददन्नयनोत्सवं सततमपि नः स्वेच्छादृश्यो नवो नव एव यः । विकलकरणः पाण्डुच्छायः शुचा परिदुर्बलः कथमपि स इत्युन्नेतव्यस्तथापि दृशोः प्रियः ॥ २२ ॥ सीता-पेक्खामि सहि पेक्खामि । प्रेक्षे सखि प्रेक्षे । तमसा-पश्यन्ती प्रियं भूयाः । सीता-हा देव्व एसो मए विणा अहं वि एदेण विणेत्ति सिविणेवि वनगोचरा' इति कपिला । ततः अनन्तरम् । हरिणकैः बालहरिणै । न विमुच्यते स्म न विमुक्ता ॥ २१ ॥ वासन्ति किं त्वया कृतं आर्यपुत्राय ममैतद्दर्शयन्त्या । हा धिक् हा धिक्, स एवार्थपुत्र, तदेव पञ्चवटीवनम्, सैव प्रियसखी वासन्ती, त एव विविधविस्रम्भसाक्षिणो गोदावरीकाननोद्देशाः, त एव जातनिर्विशेषा मृगपक्षिण । मम पुनर्मन्दभागिन्याः दृश्यमानमपि सर्वमेवैतन्नास्ति । ईदृशो जीवलोकस्य परिणामस्संवृत्त । एतत् शिलातल- मित्यर्थ । जातः निर्विशेषः अस्मतसाधारण्य येषु । निर्भया इति भाव ॥ नवकुवलय इति ॥ २२ ॥ ददत् वितरन् । ददन् इति वोडपि यन्नाम । विकलानि असमर्थानि करणानि इन्द्रियाणि यस्य । परि अन्तर्बहिश्च । तथापि स्वभावादिति शेष ॥ २२ ॥ पश्यामि सखि पश्यामि । प्रियं प- श्यन्ती भूयाः इत्यन्वय । हा दैव एष मया विना अहमपि एतेन विनेति १ 'परिवत्तो' ( परिवर्त्त: ) क-घ-च. २ 'कुवलयदल' क-घ-म. ३ 'ददौ' घ-म. ४ 'ते' च-प्र. ५ 'नव नवमेव य.' घ-छ. ६ 'पाण्डुः सोय'- घ-घ. ७ 'पश्य प्रिय भूय:' न.