वैशेषिक दर्शन (प्रशस्तपाद भाष्य सहित)
Vaisheshika Darshan with Prashastapada Bhashya
महर्षि कणाद / महर्षि प्रशस्तपाद द्वारा
स्रोत: चौखम्बा संस्कृत सीरीज · चौखम्बा संस्कृत सीरीज · 1950 (उद्गम)
पृष्ठ 3, कुल 759 में से
संदर्भ में पढ़ेंप्रस्तावना प्रायशः सर्वाण्यपि भारतीयदर्शनानि मोक्षमेव परमपुरुषार्थतया लक्षीकृत्य प्रवर्तितानीति नाविदितं दार्शनिकरुचिवताम् । "अथातो धर्मं व्याख्यास्यामः" (वै. सू. १।१।१) इति सूत्रयित्वा "यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः" (वै. सू. १।१।२) इत्यादिना धर्मस्वरूपं प्रतिपादयता भगवता कणादेन निःश्रेयसप्रयोजकी- भूतधर्मप्रतिपादनपरत्वं वैशेषिकदर्शनस्येति प्रतिपादितम् । प्रशस्तपादाचार्योऽपि वैशेषिकसिद्धान्तनिर्वचनारम्भे "द्रव्यादिषण्णां पदार्थानां साधर्म्यवैधर्म्यज्ञानं निःश्रेयस- हेतुः" इत्यनेन "तच्च (उक्ततत्त्वज्ञानञ्च) ईश्वरचोदनाभिव्यक्ताद्धर्मादेव" इत्यनेन च निरुक्तमेवाशयं समर्थयति । प्रस्तुतश्चायं ग्रन्थस्तस्यैव प्रशस्तपादाचार्यस्य विशिष्टा कृतिर्यद्यपि वैशेषिकसूत्राणां न तादृशं व्याख्यानं प्रस्तौति, येन भाष्यकोटिमारोहेत् । अत एव मन्ये, स्वयं ग्रन्थकृता ग्रन्थस्यास्याभिधानं "पदार्थधर्मसङ्ग्रहः" इत्यकारि, तथापि प्रायशः सर्वासामप्युक्तीनां समर्थने युक्त्यपेक्षया वैशेषिकसूत्राण्येवोद्ध्रियन्ते ग्रन्थकृतेत्येतस्याध्ययनेन सम्यगवगन्तुं शक्यते । अतः प्रकारान्तरेण सूत्रार्थवर्णन- परत्वमपि (सूत्रार्थो वर्ण्यते यत्र...) ग्रन्थस्यास्य सङ्गच्छते । अत एव भाष्यत्वमपि च सङ्गच्छते । किञ्च, यद्यपि साम्प्रतमुपलब्धान्यनुपलब्धानि च नैकानि व्याख्यानानि सन्ति वैशेषिकसूत्राणाम्, तथापि तेष्वेतस्य सर्वाधिकं प्रामाण्यमवधार्यते वैशेषिकनिकाये । अतो विशिष्टप्रामाण्यवत्तयाऽप्येतस्य भाष्यमिति व्यपदेशः । वस्तुतस्तु न केवलं सूत्रार्थवर्णनपरत्वमात्रं भाष्यत्वं भाष्याणाम् । कथमन्धथा वैशेषिकसूत्रोपस्कारन्याय- सूत्रवृत्तिप्रभृतयो ग्रन्था भाष्यपदवीं नारोहन्ति । मदृष्ट्याऽस्ति कश्चिद् विशिष्टो रूढ्यर्थो भाष्यशब्दस्य । भाष्यपदश्रवणसमकालमेव किमपि तपः, काऽपि विलक्षणा श्रद्धा, सर्वात्मना पावित्र्यम्, ऋषिप्रोक्तत्वमित्यादिकं स्वत एव स्फुरितं भवति । तदेतत्सर्वमप्येतस्य ग्रन्थस्य पर्यालोचनेनानुभवपथमायाति । अत एव परवर्तिभिः प्रायः सर्वैरपि निबन्धकारैर्वैशेषिकसिद्धान्तनिर्वचनक्रमे प्रशस्तपादोक्ताः सिद्धान्ताः प्रमाणत्वेनोपस्थापिताः, तत्सरणिरपि प्रायशोऽनुसृता । इत्थमेतस्य ग्रन्थरत्नस्य वैशिष्ट्यमवधार्य ग्रन्थोऽयं विश्वविद्यालयेन १८८५ तमे शकाब्दे गङ्गानाथझा-ग्रन्थमालायामिदंप्रथमतया प्रकाशितः । यद्यपि भाष्यमिदमत्यन्तं ललितया भाषया रुचिरया च शैल्या निबद्धम्, तथापि विचाराणां गाम्भीर्याद् यत्र तत्र सृष्टिप्रक्रिया-पाकजप्रक्रिया-द्वित्वोत्पत्तिविधानाद्यनेकेषु स्थलेषु विलक्षणार्थ- गर्भत्वाच्च किञ्चित् क्लिष्टत्वमवधार्य व्युत्पित्सूनामुपयोगाय तदानीमेव श्रीधरभट्ट-