वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 112, कुल 835 में से
संदर्भ में पढ़ेंबहुवचनस्य वस्नसौ ।८।१।२१ ॥ उक्तविषयोः षष्ठ्यादिवहुवचनान्तयोर्वस्नसौ स्तः । वांनावावोरपवादः ॥ तेमयावेकवचनस्य ।८।१।२२ ॥ उक्तविषयोरनयोः षष्ठीचतु- र्थ्येकवचनान्तयोस्ते मे एतौ स्तः ॥ त्वामौ द्वितीयायाः ।८।१।२३ ॥ द्वितीयैकवचना- न्तयोस्त्वा मा एतौ स्तः ॥ श्रीशस्त्वाऽवतु मापीह दत्तात्ते मे पि शर्म सः । स्वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः ॥ १ ॥ सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः । सोऽव्याद्वो नः शिवं वो नो दद्यात्सेव्योऽत्र वः स नः ॥ २ ॥ पदात्परयोः किम् ? वाक्यादौ मा भूत् । त्वां पातु । मां पातु । अपादादौ किम् ? ‘वेदैरशेषैः संवेद्योऽस्मान्कृष्णः सर्वदावतु’ । स्थग्रहणाच्छ्रूयमाणविभक्तिकयोरेव । नेह—इति T युष्मत्पुत्रो ब्रवीति इत्यस्मत्पुत्रो ब्रवीति ॥ समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः * ॥ एकतिङ्- वाक्यम् * ॥ तेनेह न—ओदनं पच, तव भविष्यति । इह तु स्यादेव—शालीनां ते ओदनं दास्यामीति ॥ एत वांनावादय आदेशा अनन्वादेशे वा वक्तव्याः * ॥ अन्वादेशे तु नित्यं स्युः । धाता ते भक्तोऽस्ति । धाता तव भक्तोऽस्तीति वा । तस्मै ते नम इत्येव ॥ न चवाहाहैवैर्युक्ते ।८।१।२४ ॥ चादिपञ्चकयोगे नैते आदेशाः स्युः ॥ हरिस्त्वां मां च ३ रक्षतु । कथं त्वां मां वा ४ न रक्षेत्यादि । युक्तग्रहणात्साक्षाद्योगेऽयं निषेधः । परम्परासंबन्धे तु आदेशः १ नवाक्षरच्छन्दसि प्रवृत्तौ व्याघाताभावाद् ‘एङः पदान्तादति’ इत्यतः परत्वाद् आदेशः स्यादिति भावः ॥ ‘मां कृष्णः’ इति पाठे तु न काप्यनुपपत्तिरिति बोध्यम् ॥ T समासत्वेन विभक्तेर्लुका लुप्तत्वात् न विभक्तेः श्रवणं नापि प्रत्ययलक्षणम् ‘न लुमता’ इति निषेधात् ॥ २ ‘आख्यातं साव्ययकारकविशेषणं वाक्यम् । सक्रियाविशेषणं च ॥’ इति वाक्यलक्षणे ‘आख्यातम्’ इति एकत्वं विवक्षितम् । अत एव ‘न च समानवाक्ये द्वे तिङन्ते स्तः’ इति ‘तिङ्ङतिङः’ इति सूत्रस्थं भाष्यं संगच्छते ॥ अत्रैकत्वं न विवक्षितमिति भ्रमवारणाय एकत्वविवक्षाया स्फुटत्वप्रतीतये स्पष्टमेवाभिहितम्-एकतिङ्वाक्यमिति ॥ बहुव्रीहिः । तिङ्पदं च तिङन्तार्थपरम् । तथाच एकतिङन्तार्थमुख्यविशेष्यकबोधजनकपदसमुदायो वाक्य- मित्यर्थः ॥ एवं च यत्र क्रियापदं न श्रूयते तत्र अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति’ इति भाष्येण तिङन्तपदमध्याहार्यमेव । पचादयः क्रिया भवतिक्रियायाः कर्त्र्यो भवन्ति’ इति भाष्यतः ‘पचति भवति’ इत्यादावपि न वाक्यत्वव्याघातः । ‘ओदनं पच, तव भविष्यतीति वाक्ये तु ‘त्वत्कर्तृकमोदनकर्मकं प्रेरणाविषयः पचनम्’ इति ‘त्वत्स्वामिकमोदनकर्तृकं भवनम्’ इति भिन्न एवार्थ इत्येकतिङन्तार्थमुख्यविशेष्यकबोधजनकत्वाभावान्नैकवाक्यत्वमिति कैयटाशयः ॥ शालीनामित्यस्य तु ‘शालि- संबन्ध्योदनकर्मकं त्वत्सं प्रदानकं मत्कर्तृकं दानम्’ इत्येवमेकतिङन्तार्थमुख्यविशेष्यकबोधजनकपदसमुदायत्वा- देकवाक्यत्वमव्याहतमिति भावः ॥ ३ हरिकर्तृकं समुच्चितत्वन्मत्कर्मकं रक्षणं प्रार्थनाविषय इति बोधे चार्थसमुच्चययोगस्य युष्मदस्मदोरेव साक्षात्त्वेन निषेधः सिद्ध इति भावः ॥ ४ किकारणकः त्वन्मदन्य- तरकर्मकहरिकर्तृकरक्षणाभावः इति बोधे अन्यतररूपवाशब्दार्थस्य युष्मदस्मदर्थेन साक्षादन्वयान्निषेधः सिद्ध इति भावः ॥