भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 117, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 117

( ६६ ) सिद्धान्तकौमुद्याम्- गौणत्वे तु प्रियषषः । प्रियषषाम् । रुत्वं प्रति षत्वस्यासिद्धत्वात् ससजुषोरुरिति रुत्वम् ॥ र्वोरुपधाया दीर्घ इकः ।८।२।७६ ॥ रेफवान्तस्य धातोरुपधाया इको दीर्घः स्यात्पदा- न्ते ॥ पिपठीः । पिपठिषौ । पिपठिषः । पिपठीभ्याम् ॥ वा शरीति वा विसर्जनीयः ॥ नुम्विसर्जनीयशर्व्यवायेऽपि ।८।३।५८ ॥ एतैः प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः स्यात् ॥ ष्टुत्वेन पूर्वस्य षत्वम् । पिपठीष्षु । पिपठीःषु ॥ प्रत्येकमिति व्याख्यानादनेकव्यवधाने षत्वं न । निंस्व । निंस्से ॥ नुम्ग्रहणं नुम्स्थानिकानुस्वारोपलक्षणार्थं व्याख्यानात् । तेनेह न-सुहिन्सु । पुंसु । अत एव न शर्ग्रहणेन गतार्थता ॥ रात्सस्येति सलोपे विसर्गः-चिकीः । चिकीर्षौ । चिकीर्षः । रोः सुपीति नियमान्न विसर्गः-चिकीर्षु ॥ दमेर्र्डोस् । डित्त्वसामर्थ्याद्धिलोपः । षत्वस्यासिद्धत्वादृत्वविसर्गौ । दोः । दोषौ । दोषः । पदन्न इति वा दोषन् । दोष्णः । दोष्णा । दोषः । दोषा ॥ विश प्रवेशने । सन्नन्तात् क्विप् । षत्वस्यासिद्धत्वात् संयोगान्तलोपः । व्रश्चेति षः । जश्त्वचर्वे । विविट् । विविड् । विविक्षौ । विविक्षः ॥ स्कोरेरिति कलोपः । तट् । तड् । तक्षौ । तक्षः ॥ गोरट् । गोरड् । गोरक्षौ । गोरक्षः ॥ तक्षिरक्षिभ्यां ण्यन्ताभ्यां क्विपि तु स्कोरेरिति न प्रवर्तते । णिलोपस्य स्थानिवद्भावात् । 'पूर्वत्रासिद्धीये न स्थानिवदिति तु इह नास्ति । 'तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति निषेधात् । तस्मात्संयो- गान्तलोप एव । तक् । तग् । गोरक् । गोरग् ॥ स्कोरिति कलोपं प्रति कुत्वस्यासिद्धत्वात्संयोगान्त- लोपः । पिपक् । पिपग् । एवं विविक् ॥ दिधक् ॥ पिस गतौ । सुष्ठु पेसतीति सुपीः । सुपिसौ । सुपिसः । सुपिसा । सुपीभ्याम् । सुपीःषु । सुपीष्षु ॥ एवं सुतूः । तुस खण्डने ॥ विद्वान् । विद्वांसौ । विद्वांसः । हे विद्वन् । विद्वांसम् । विद्वांसौ ॥ वसोः संप्रसारणम् ।६।४।१३१ ॥ १ रुत्वं प्रतीति ॥ पठ धातोः सनि इडागमे जाते षत्वे कृते धातुसंज्ञायां क्विवादि - इति क्रमिका- न्वाख्यानपक्षमभिप्रेत्येदमिति भावः ॥ वस्तुतस्तु पदविभज्यान्वाख्यानपक्षे षत्वस्य त्रैपादिकत्वेन धातुसंज्ञा क्विब- लोपप्रातिपदिकत्वादिविधिसुलोपपदसंज्ञाः प्रति असिद्धत्वेन प्रागप्राप्त्या पदसंज्ञोत्तरं पदान्तत्वेनापदन्तत्वाभावा- त्षत्वस्य प्राप्तिरेवं नेति व्यर्थ एवायं षत्वस्यासिद्धत्वप्रदर्शको ग्रन्थ इति बोध्यम् ॥ न चान्तरङ्गत्वात्पूर्वमिडाग- मोत्तरमेव प्राप्तं षत्वं कथं पदसंज्ञां प्रतीक्षेतेति वाच्यम् । तथा सेतुष इत्यात्रापि अन्तरङ्गः इडागमो बहिरङ्गं संप्रसारणं नैव प्रतीक्षेतेति प्राचां मते ' अकृतव्यूहपरिभाषया नवीनानां मते 'उपजनिष्यमाणनिमित्तो- ऽप्यपवाद उपसञ्जातनिमित्तमप्युत्सर्गं बाधते' इति परिभाषया षत्वस्य प्राग्जायमानत्वादिति दिक् ॥ तस्माद् ' रुत्वं प्रति रुत्वभागे रुत्वप्राप्तियोग्ये पदान्ततायां षत्वस्य असिद्धत्वात् अगतत्वात् अप्राप्तत्वात् ' इत्यर्थे तु न काप्यनुपपत्तिरिति दाधिमथाः ॥ २ विसर्ग इति । रेफस्येत्यादिः ॥ ३ षत्वस्यासिद्ध- त्वादिति पदान्ते षत्वस्याप्राप्त्या प्रमादपतितोयं पाठ इति ' रुत्वविसर्गौ' इत्येतावानेव पाठ इति बोध्यम् ॥ असिद्धत्वादित्यस्याप्राप्तत्वादित्यर्थो वा ॥ ४ षत्वस्यासिद्धत्वादिति । 'उपसंजनिष्यमाण- निमित्तोप्यपवाद उपसंजातनिमित्तमप्युत्सर्गम्'इति न्यायेन सपादसप्ताध्यायीस्थकार्यप्रवृत्तिसंभावनायां त्रिपादीस्थकार्यप्रवृत्तिकल्पनस्यावश्यकत्वेन क्विब्लोपसुलोपेभ्यः प्राक् षत्वस्य प्रवृत्त्यनङ्गीकारादिति भावः ॥ ५ 'संयोगादिलोपः संयोगान्तलोपे (सिद्धः)' इति वार्तिकेन सिद्धत्वात् परत्वादिति भावः ॥ ६ 'कुत्वस्यासिद्धत्वादिति । ' 'संयोगादिलोपाप्राप्त्या' इति शेषः ॥ ७ 'वच्' धातोरित्यादिः ॥ वह धातोस्तु-' विवट् विवड्' इत्येवं रूपाणि बोध्यानि ॥ ८ 'दह धातोः' इत्यादिः ॥