वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 148, कुल 835 में से
संदर्भ में पढ़ेंतु अपिशब्दबलेन गम्यमानस्य विन्दोरवयवावयविभावसंबन्धे । इयमेव ह्यपिशब्दस्य पदार्थद्यो- तकता नाम । द्वितीया तु नेह प्रवर्तते, 'सर्पिषो बिन्दुना योगो न त्वपिना' इत्युक्तत्वात् ॥ अपि स्तुयाद्विष्णुम् । संभावनं शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः ॥ अपि स्तुहि । अन्ववसर्गः कामचा- रानुज्ञा ॥ धिग्देवदत्तमपि स्तुयाद् वृषलम् । गर्हा ॥ अपि सिञ्च । अपि स्तुहि । समुच्चये ॥ कालाध्वनोरत्यन्तसंयोगे । २ । ३ । ५ ॥ इह द्वितीया स्यात् । मासं कल्याणी । मास- मधीते । मासं गुडधानाः । क्रोशं कुटिला नदी । क्रोशमधीते । क्रोशं गिरिः ॥ अत्यन्तसंयोगे किम् ? मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ॥ स्वतन्त्रः कर्ता । १ । ४ । ५४ ॥ क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥ साधकतमं करणम् । १ । ४ । ४२ ॥ क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात् । तमब्- ग्रहणं किम् । गङ्गायां घोषः ॥ कर्त्तृकरणयोस्तृतीया । २ । ३ । १८ ॥ अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो वाली ॥ प्रकृत्यादिभ्य उपसंख्यानम् * ॥ प्रकृत्या चारुः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेनैति । विषमेणैति । द्विद्रोणेन धान्यं क्रीणा- ति । सुखेन दुःखेन वा यातीत्यादि ॥ दिवः कर्म च । १ । ४ । ४३ ॥ दिवः साध- कतमं कारकं कर्मसंज्ञं स्याच्चात्करणसंज्ञम् । अक्षैरक्षान्वा दीव्यति ॥ अपवर्गे तृतीया । २ । ३ । ६ ॥ अपवर्गः फलप्राप्तिस्तस्यां द्योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्ना क्रोशेन वाऽनुवाकोऽधीतः ॥ अपवर्गे किम् ? मासमधीतो नायातः ॥ सहयुक्तेऽप्रधाने । २ । ३ । १९ ॥ सहार्थेन युक्ते अप्रधाने तृतीया स्यात् ॥ १ बिन्दुगमकतैव ॥ २ अप्रयुज्यमानबिन्दुरूपपदार्थद्योतकतैत्यर्थः ॥ ३ अत्यन्तसंयोगो व्याप्तिरूपो निर- न्तरसंबन्धः । स च द्रव्यगुणक्रियाभिरिवाभावेनापि तेन मासमध्ययनाभाव इति मासं नाधीते इत्यादिसिद्धिः ॥ ४ अधिकृतकारकपदं क्रियापरमपीति प्रागुक्तमेवेत्याह-क्रियायामिति ॥ ५ स्थाली पचति काष्ठानि पचन्ति इत्यादिसिद्ध्यर्थमाह-विवक्षित इति ॥ 'स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः' इति भर्तृक्तेरिति भावः ॥ ६ तमब्ग्रहणं किमिति । कारकाधिकारात्करणल्युडन्तकरणेतिमहासंज्ञया च साधकत्वे लब्धे साधकपदमेव- साधकतमार्थे भविष्यतीति प्रश्नः ॥ ७ गङ्गायामिति । तुल्यन्यायेन अधिकरणमित्यधिकरणल्युडन्त- महासंज्ञयैव सिद्धे आधारग्रहणसामर्थ्यात्सर्वविषयव्याप्त्या य आधारः सोऽधिकरणमित्यर्थः स्यात् । एवं च तिलेषु तैलमित्यादावेव सप्तमी स्यान्नतु गंगायामित्यादिगौणाधारे ॥ अतस्तमग्रहणेन 'अस्मिन् कारकाधिकारे शब्दसामर्थ्यगम्यस्तरतमयोगो न भवति' इति ज्ञाप्यते । तथा च 'गंगायां गावः' इत्यादावप्यधिकरणे सप्तमी निर्बाधैवेति भाष्ये स्पष्टम् ॥ ८ रामकर्तृकबाणकरणप्राणवियोगाश्रयो वालीति बोधः ॥ ९ 'वृद्धो यूना' इत्यादिनिर्देशात् 'सहयुक्ते' इत्यस्य 'सहार्थे गम्ये' इत्येवार्थः । तदेवाह-सहार्थेन युक्ते इति ॥ तत्फलमाह-एवमित्यादि ॥ 'युक्तग्रहणं शब्दविशेषानादरेणार्थयोगे भवेदित्यर्थम्' इति वदतो नागेशस्य 'अन्तरान्तरेण युक्ते' इत्यत्रार्थयोगे द्वितीयापत्तिः कथं नेति पारिभाव्यमेव ॥ साहित्यं च स्वसमभिव्याहृतक्रियादिसमानकालिकसमानक्रियादिमत्त्वम् क्वचित्समानदेशसमानक्रियादिमत्त्वम् । क्वचित् विद्यमानतामात्रमेवं साहित्यम् ॥ अत एव माषवापोत्तरं तत्रैव क्षेत्रे तिलवापे 'माषैः सह तिलान् वपति' इत्यत्र 'सहैव दशभिः पुत्रैर्भारं वहति गर्दभी' इत्यत्र च तृतीयासिद्धिः ॥ ७