वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 162, कुल 835 में से
संदर्भ में पढ़ें१ योगः संयोगसमवायात्मकः ॥ चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥' ॥ १ ॥ २ ३ हेतौ तृतीयाऽत्र प्राप्ता तन्निवारणार्थमिदम् । सीमाऽण्डकोशः । पुष्कलको गन्धमृगः ॥ योगविशेषे किम् ? वेतनेन धान्यं लुनाति ॥ यस्य च भावेन भावलक्ष- णम् । २।३।३७ ॥ यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् ॥ गोषु दुह्यमानासु गतः ॥ ४ अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्ये च *॥ ५ सत्सु तरत्सु असन्त आसते । असत्सु तिष्ठत्सु सन्तस्तरन्ति । सत्सु तिष्ठत्सु असन्तस्तरन्ति । असत्सु तरत्सु सन्तस्तिष्ठन्ति ॥ षष्ठी चानादरे । २।३।३८ ॥ अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्तः ॥ ६ रुदति रुदतो वा प्राव्राजीत् । रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः