वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 179, कुल 835 में से
संदर्भ में पढ़ें( १२८ ) सिद्धान्तकौमुद्याम्- कठाध्यापकः । कठधूर्तः ॥ १ प्रशंसावचनैश्च ।२।१।६६ ॥ एतैः सह जातिः प्राग्वत् ॥ गोमतल्लिका ॥ गोमचर्चिका । गोप्रकाण्डम् । गवोद्धः । गोतल्लजः । प्रशस्ता गौरित्यर्थः । मतल्लिकादयो नियतलिङ्गा, न तु विशेष्यनिघ्नाः ॥ जातिः किम् ? कुमारी मतल्लिका ॥ युवा खलतिपलितवलिनजरतीभिः ।२।१।६७ ॥ पूर्वनिपातनियमार्थं सूत्रम् । ३ लिङ्गविशिष्टपरि- भाषया युवतिशब्दोऽपि समस्यते । युवा खलतिः युवखलतिः । युवतिः खलती युवखलती । युवजरती । ४ युवत्यामेव जरतीधर्मोपलम्भेन तद्द्रूपारोपात्सामानाधिकरण्यम् ॥ कृत्यतुल्याख्या अजात्या ।२।१।६८ ॥ भोज्योष्णम् । तुल्यश्वेतः । सदृशश्वेतः ॥ अजात्या किम् ? भोज्य ओदनः । प्रतिषेधसामर्थ्याद्विशेषणसमासोऽपि न ॥ वर्णी वर्णेन ।२।१।६९ ॥ समानाधिकर- णेन सह प्राग्वत् । ५ कृष्णसारङ्गः ॥ ६ कडाराः कर्मधारये ।२।२।३८ ॥ कडारादयः शब्दाः कर्मधारये वा पूर्वं प्रयोक्त्याः । कडारजैमिनिः । जैमिनिकडारः ॥ कुमारः ७ श्रमणादिभिः ।२।१।७०॥ कुमारी श्रमणा कुमारश्रमणा । इहगणे श्रमणा प्रव्रजिता गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया ८ एतदेव ज्ञापकं बोध्यम् ॥ ९ चतुष्पादो गर्भिण्या ।२।१।७१॥ चतुष्पज्जातिवाचिनो गर्भिणीशब्देन सह प्राग्वत् ॥ गोगर्भिणी ॥ १० मयूरव्यंसकादयश्च १ धूर्तग्रहणमुत्सार्थम् । कुत्सायां तु ‘कुत्सितानि कुत्सनैः’ इत्येव सिद्धम् ॥ २ मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमून्यीत्यमरः ॥ ‘मतल्लिकोद्धमिश्राः स्युः प्रकाण्ड-स्थलभित्तयः । हस्तपाश- तटाः पादः पाली मचर्चिकादयः ॥' इत्येवं गणरत्नमहोदधौ प्रशंसावाचिनो दर्शिताः ॥ ३ ‘प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्’ इति परिभाषायां च ‘जरती’ इति स्त्रीलिङ्गसमानाधिकरणत्वविवक्षया युवश- ब्दस्य समासविधानमपि ज्ञापकमिति बोध्यम् ॥ ४ जरत्यां युवतिधर्मारोपे तु युवतीशब्दस्य विशेषणत्वेन ‘विशेषणं विशेष्येण' इति समासः सिद्ध एवेति जरतीग्रहणं व्यर्थमेव स्यादिति शेखरकृत ॥ ५ सारङ्गश्चित्रो वर्णः । कृष्णशब्दः कृष्णावयवके लाक्षणिक इति सामानाधिकरण्यम् ॥ ६ कडार, गड्डुल, खञ्ज, खाड, काण, कुण्ठ, खलति, गौर, वृद्ध, भिक्षुक, पिङ्ग, पिङ्गल, तनु, जठर, बधिर, मठर, कुब्ज, बर्बर इति कडारादिः । क्वचित्तु । नौ, काक, अन्न, शुक, शृगाल, प्रकृति, प्राय, गोत्र, सम, विषम, द्विद्रोण, पञ्चक, साहस्र, प्रति, परि, अनु । एतेऽपि दृश्यन्ते ॥ ७ श्रमणा, प्रव्रजिता, कुलटा, गर्भिणी, तापसी, दासी, बन्धकी अध्यापक, अभिरूपक, पण्डित, पटु, मृदु, कुशल, चपल, निपुण इति श्रमणादिः ॥ ८ एवकारोऽप्यर्थे । ‘युवा खलति' इत्यत्र जरतीग्रहणस्यापि ज्ञापकत्वसंभवात् ॥ समानाधिकरणाधिकारे विहितः समासः कुमारशब्देन पुंलिङ्गेन स्त्रीलिङ्गानां श्रमणादीनाम् अप्राप्तत्वाद् व्यर्थः सन्नेतत्परिभाषाज्ञापक इति भावः ॥ ९ चतुष्पज्जातिरिति वक्तव्यम् ॥ * ॥ नेह । स्वस्तिमती गर्भिणी ॥ १० मयूरव्यंसक, छात्रव्यंसक, कम्बोजमुण्ड । यवनमुण्ड । छन्दसि । हस्तेगृह्य, पादेगृह्य, लाङ्गूलेगृह्य, पुनर्दाय, ‘एहीडाद- योऽन्यपदार्थे' एहीडम्, एहिपचम्, एहिवाणिजा । क्रिया । अपेहिवाणिजा, प्रेहिवाणिजा, एहिस्वागता, अपेहिस्वागता, एहिद्वितीया, अपेहिद्वितीया, प्रेहिद्वितीया, एहिकटा, अपेहिकटा, प्रेहिकटा, आहरकरटा, प्रेहिकरटा, प्रेहिकर्दमा, प्रोहिकर्दमा, विधमचूडा, उद्धमचूडा, आहरचेला, आहरवनिता, आहरवसना, कृन्त- विचक्षणा, उद्धरोत्सृजा, उद्धरावसृजा, उद्धमविधमा, उत्पचनिपचा, उत्पतनिपता, उच्चावचम्, उच्चनीचम्, आचोपचम्, आचपराचम्, निश्चप्रचम्, अकिंचनः, ज्ञात्वाकालकः, पीत्वास्थिरकः, भुक्त्वासुहितः, प्रोष्यपा- पीयान्, उत्पत्यपाकला, निपत्यरोहिणी, निष्षण्णाश्यामा, अपेहिप्रघसा, एहिविघसा, इहपञ्चमी, इहद्वितीया, ‘जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति' जहिजोडः, जहिस्तम्बः । ‘आख्यातमाख्या- तेन क्रियासातत्ये' अशनीतपिबता, पचतभृज्जता, खादतमोदता, खादतवमता, आहरनिवपा, आहरनिष्करा, भिन्धिलवणा, कृन्धिविचक्षणा, पचलवणा, पचप्रकृटा । आकृतिगणोऽयम् । तेन अकुतोभय, कान्दिशीक, अहोपुरुषिका, अहमहमिका, यदृच्छा, एहिरेयाहिरा, उन्मृजविमृजा, द्रव्यान्तरम्, अवश्यकार्यमित्यादि सिद्धम्॥