वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 191, कुल 835 में से
संदर्भ में पढ़ेंभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात्समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे नतु पूरण्यां प्रियादौ च परतः ॥ गोस्त्रियोरिति ह्रस्वः । चित्रा गावो यस्येति लौकि- कविग्रहे चित्रा अस् गो अस् इत्यलौकिकविग्रहे । चित्रगुः । रूपवद्भार्यः ॥ चित्रा जरती गौर्यस्येति विग्रहे अनेकोक्तेर्बहूनामपि बहुव्रीहिः । अत्र केचित्- चित्राजरतीगुः । जरतीचित्रा- गुर्वा । एवं दीर्घातन्वीजङ्घवः । तन्वीदीर्घाजङ्घवः । त्रिपदे बहुव्रीहौ प्रथमं न पुंवत् । उत्तरपदस्य मध्यमेन व्यवधानात् । द्वितीयमपि न पुंवत् । पूर्वपदत्वाभावात् । उत्तरपदशब्दो हि समासस्य चरमावयवे रूढः । पूर्वपदशब्दस्तु प्रथमावयवे रूढ इति वदन्ति ॥ वस्तुतस्तु नेह पूर्वपदमाक्षि- प्यते 'आनङ् ऋतः' इत्यत्र यथा । तेनोपान्त्यस्य पुंवदेव-चित्राजरद्गुरित्यादि । अत एव चित्रा- जरत्यौ गावौ यस्येति द्वन्द्वगर्भेऽपि चित्राजरद्गुरिति भाष्यम् ॥ कर्मधारयपूर्वपदे तु द्वयोरपि पुंवत्- जरच्चित्रगुः । कर्मधारयोत्तरपदे तु-चित्रजरद्गवीकः ॥ स्त्रियाः किम् ? ग्रामणि कुलं दृष्टिरस्य ग्रामणिदृष्टिः ॥ भाषितपुंस्कात्किम् ! गङ्गाभार्यः ॥ अनूङ् किम् । वामोरूभार्यः ॥ समानाधिकरणे किम् ! कल्याण्याः माता कल्याणीमाता ॥ स्त्रियां किम् ? कल्याणी प्रधानं यस्य स कल्याणीप्र- धानः ॥ पूरण्यां तु-॥ अप्पूरणीप्रमाण्योः ।५।४।११६ ॥ पूरणार्थप्रत्ययान्तं यत् स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहेरप् स्यात् ॥ कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा .रात्रयः ॥ स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः ॥ पुंवद्भावप्रतिषेधोऽप्प्रत्ययश्च प्रधानपूरण्यामेव । रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्या ॥ अन्यत्र तु-॥ नद्यृतश्च ।५।४।१५३ ॥ १ चित्रः पटः, चित्रा शाटी, चित्रं वस्त्रम्, इति चित्रशब्दस्यानेकविधरूपसमाहाररूपं प्रवृत्तिनिमित्तमुद्देश्यैव पुंसि स्त्रियां क्लीबे च प्रवृत्तिदर्शनादनेकविधरूपसमाहारे प्रवृत्तिनिमित्ते भाषितपुंस्कत्वात् चित्रशब्दात् परत्र ऊङो- ऽनवेक्षणात् चित्रशब्दः पुंवदेव जात इति टापो निवृत्तिरिति भावः ॥ गर्भिभार्य इत्यादौ पुंस्यपि गर्भवत्त्वस्य ऐतरेयोपनिषदि प्रतिपादनात् 'गर्भिन्' शब्दस्य भाषितपुंस्कत्वेन पुंवद्भावसिद्धिरिति सर्वं समञ्जसम् ॥ २ मध्यमस्य जरतीशब्दस्य पूर्वोच्चारितचित्राशब्दापेक्षयोत्तरत्वेऽप्युत्तरपदत्वाभावे गोशब्दापेक्षया पूर्वत्वस्याव्याहत- त्वेपि पूर्वपदत्वाभावे च युक्तिमाह-उत्तरपदशब्दो हीति ॥ ३ द्वन्द्वस्य पूर्वपदत्वेऽपि भाषितपुंस्कत्वाभावा- न्नैव पुंवत्त्वप्राप्तिरिति तत्र पुंवत्त्वदर्शनेन उत्तरपदे परतः पूर्वमात्रस्यैव पुंवत्त्वं निश्चीयत इति भावः ॥ शेखर- कृतस्तु-परे त्वाक्षेपेपि न दोषः 'धर्मादनिच् केवलात्' इत्यत्र त्रिपद्व्यावृत्तये उपात्तं 'केवलात्' इति पदं समा- साक्षिप्तपूर्वपदशब्दस्य यौगिकत्वं ज्ञापयति-इति वदन्ति ॥ अत्र दाधिमथाः-समासान्तप्रकरणे उत्तरपद-पूर्व- पदशब्दयोरभावेन 'धर्मादनिच् केवलात्' इत्यत्र 'केवलात्' इति पञ्चम्या 'उत्तरस्य' इत्यस्योपस्थित्या उत्तर- त्वस्य पूर्वत्वसापेक्षत्वेन तदाक्षेपे 'केवलात् असहायात् असमस्ताद् उत्तराद् धर्मशब्दात्' इत्येवमर्थसामञ्जस्येन पूर्वपदाक्षेपे मानाभावात् । समासान्तप्रकरणे तथाकल्पनेपि प्रकरणान्तरे 'अलुगुत्तरपदे' इत्यधिकारेऽपि तथाक- ल्पने मानाभावाच्च ॥ किंच यदि पूर्वपदशब्दस्तत्र यौगिक एव स्यात्, न रूढः, तर्हि 'ढ्रलोपे-' इति सूत्रे पूर्वमात्रग्रहणार्थं पूर्वशब्दोपादानं व्यर्थमेव स्यात् ॥ इति वदन्ति ॥ ४ 'जरती चासौ चित्रा च' इति विग्रहे 'जरच्चित्रा' शब्दं निष्पाद्य तस्य गोशब्देन समासे इत्याशयः ॥ ५ ग्रामणीशब्दस्य नपुंसकत्वेन नैव स्त्रीलिङ्गत्वमिति भावं दर्शयितुमेव 'कुलम्' इत्यस्य प्रयोगः ॥ ६ कल्याणी कन्या, ततस्तस्या माता भिन्नेवेति न सामानाधिकरण्यम् ॥ ७ पूरणी पञ्चसंख्यापूरणी चतसृषु रात्रिषु एकस्या रात्रेरेव योगेन पञ्चकं रात्रीणां भवतीति भावः॥ वाच्या अन्यपदार्थभूते रात्रिसमूहे उद्भूतावयवे तस्याः पञ्चम्याः रात्रेरपि शक्यतावच्छेदकरात्रि- त्वविशिष्टतयाऽन्तर्भावादिति भावः ॥