भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 197, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 197

“अणुपगयनादिभ्य' इति निपातनात् णत्वाभावमाश्रित्य अग इति प्रत्याख्यातं भाष्ये ॥ अस्थूलात्किम् ? स्थूलनासिकः ॥ खुरखराभ्यां [ वा ] नँस् * ॥ खुरणाः । खरणाः ॥ [ पक्षे अजपीष्यते * ॥ खुरणसः । खरणसः ॥ ] उपसर्गाच्च । ५।४।११९ ॥ प्रादेर्यो नासिकाशब्दस्तदन्ताद्वहुव्रीहेरच् नासिकाया नसादेशश्च । असंज्ञार्थं वचनम् । उन्नता नासिका यस्य स उन्नसः ॥ उपसर्गादनोत्परः । ८।४।२८ ॥ इति सूत्रम् ॥ तद्भङ्क्त्वा भाष्यकार आह—‘उपसर्गाद्बहुळम्’ उपसर्गात्स्थानिमित्तात्परस्य नँसो नस्य णः स्याद्बहुळम् । प्रणसः ॥ वेग्रों वक्तव्यः * ॥ विगता नासिकाऽस्य विग्रः ॥ ख्यश्च * ॥ विख्यः । कथं तर्हि 'विनसा हतबान्धवेति भट्टिः ? विर्गतया नासिकयोपलक्षितेति व्याख्येयम् ॥ सुप्रतसुश्वसुदिवशा- रिकुक्षचतुरश्रैणीपदाजपद्मोष्ठपदाः । ५।४।१२० ॥ एते बहुव्रीहावच्प्रत्ययान्ता निपा- त्यन्ते । शोभनं प्रातरस्य सुप्रतः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवाऽस्य सुदिवः । शारिरेव कुक्षिरस्य शारिकुक्षः । चतस्रोऽश्रयोऽस्य चतुरश्रः । एण्या इव पादावस्य एणी- पदः । अजपदः । प्रोष्ठो गौः तस्येव पादावस्य प्रोष्ठपदः ॥ नञ्दुःसुभ्यो हलि सक्थ्यो- रन्यतरस्याम् । ५।४।१२१ ॥ अच् स्यात् । अह्लः । अहलिः । असक्थः । असक्थिः । एवं दुःसुभ्याम् ॥ शक्त्योरिति पाठान्तरम् । अशक्तः । अशक्तिः ॥ नित्यमसिच् प्रजा- मेधयोः । ५।४।१२२ ॥ नञ्दुःसुभ्य इत्येव ॥ अप्रजाः । दुष्प्रजाः । सुप्रजाः । अमेधाः । दुर्मेधाः । सुमेधाः ॥ धर्मादनिच्केवलात् । ५।४।१२४ ॥ केवलात्पूर्वपदात्परो यो धर्मश- ब्दस्तदन्ताद्वहुव्रीहेरनिच् स्यात् ॥ कल्याणधर्मा ॥ केवलात्किम् ? परमः स्वो धर्मो यस्येति

१ एवं च प्रागयनम् ऋग्भवनम् इत्यादीनां सत्त्वे 'अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः' इति भाष्योक्तेः क्षुभ्नादित्वं कल्पनीयं येनारम्भप्रत्याख्यानयोः फलभेदो न स्यादिति भाष्याशयः ॥ २ केवलादेशवि- धानं प्रत्ययनिवृत्त्यर्थमिति बोध्यम् ॥ 'निर्दिष्टस्यान्यस्यादेशा भवन्ति' इति न तदन्तस्य सर्वस्यादेश इति भावः ॥ ३ भाष्ये तु वार्तिके वाशब्दो न दृश्यते इति अजन्तोदाहरणे अपि न दृश्येते इति बोध्यम् ॥ ४ "बर्हि- र्धिनुस्वभावाम्बत्वस्वाङ्गादिस्वरनत्वेषु वचनप्रामाण्यात् सिद्धम्” इति "गतिश्च" इति सूत्रवार्ति- केनोपसर्गग्रहणं स्वसंज्ञिप्रादिवोधकमेवेति बोध्यते इत्याह-प्रादेरिति ॥ ५ ‘प्रणो नय’ ‘प्रनः पूषा’ इत्यादावव्याप्त्यतिव्याप्तिपरिहाराय 'अनोत्परः' इति पदं त्यक्त्वा 'बहुळम्' इत्येतत् तत्स्थाने दत्त्वा' इत्यर्थः । ६ उक्तवार्तिकप्रामाण्येनात्राप्युपसर्गपदं प्रादिपरमेवेति न विस्मर्त्तव्यम् ॥ ७ 'नस्' इत्येतदत्र सूत्रे 'नश्च धातुस्थोरुषुभ्यः' इति पूर्वसूत्रे च तन्त्रेण नासिकाशब्दादेशस्यास्मच्छब्दादेशस्य चानुकरणमिति बोध्यम् ॥ ८ 'हतबान्धवा' इति प्रथमान्तसमभिव्याहाराद् 'विनसा' इति प्रथमान्तमुचितम्—तत्र समासान्तादेशौ बाधित्वा ग्रादेशेन ख्यादेशेन वा भवितव्यमिति शङ्कते—कथं तर्हीति ॥ ९ नायं बहुव्रीहिः येनोक्तादेशापत्तिः स्यात् । किंतु 'प्रादयो गताद्यर्थे' इति तत्पुरुषे 'इत्थंभूतलक्षणे च' इति तृतीयान्तमेतत् । तत्र 'पद्दन्०' इति नासिकाया नस् इति समाधानम् ॥ १० अच्प्रत्ययमात्रं निपात्यते । सुप्रतादिषु त्रिषु 'अव्ययानां भमात्रे' इति टिलोपः, शारिकुक्षाद्योर्द्वयोः 'यस्येति च' इतीकारलोपः । एणीपदादिषु 'पादः पद्' इति पद्भावः सिद्ध एवेति बोध्यम् ॥ ११ पञ्चम्यर्थे षष्ठीति बोध्यम् ॥ १२ 'शक्त्योः' इति केचित्पठन्ति' इति काशिका ॥ 'शुक्त्योः' इति केचित्पठन्ति' इति पदमञ्जरी ॥ परंतु 'अशक्तः' इति शक्तशब्देन 'अशुक्तः' इति शुक्तशब्दे- नापि सिद्धौ व्यर्थ एव तथा पाठ इति ध्येयम् ॥