वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
DevanagariHindipublished835 पृष्ठ
पृष्ठ 210, कुल 835 में से
संदर्भ में पढ़ेंपृष्ठ 210
अलुक्समासप्रकरणम् । (१९९) अथालुक्समासप्रकरणम् । अलुगुत्तरपदे । ६।३।१ ॥ अलुगधिकारः प्रागानङः, उत्तरपदाधिकारस्त्वापादसमाप्तेः ॥ पञ्चम्याः A स्तोकादिभ्यः । ६।३।२ ॥ एभ्यः पञ्चम्या अलुक् स्यादुत्तरपदे । स्तोका- न्मुक्तः । एवमन्तिकार्थदूरार्थकृच्छ्रेभ्यः ॥ उत्तरपदे किम् ? निष्क्रान्तः स्तोकान्निस्तोकः ॥ ब्राह्मणाच्छंसिन उपसंख्यानम् * ॥ ब्राह्मणे विहितानि शस्त्राणि उपचाराद् ब्राह्मणानि तानि शंसतीति ब्राह्मणाच्छंसी ऋत्विग्विशेषः । द्वितीयार्थे पञ्चम्युपसंख्यानादेव ॥ ओजः- सहोऽम्भस्तमसस्तृतीयायाः । ६।३।३ ॥ ओजसाकृतमित्यादि ॥ अञ्जस उपसंख्यानम्
- ॥ अञ्जसाकृतम् । आर्जवेन कृतमित्यर्थः ॥ पुंनानुजो जनुषान्ध इति च * ॥ यस्या- ग्रजः पुमान् स पुंसानुजः । जन