भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 258, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 258

तद्धितेषु ठगधिकारप्रकरणम् । ( २०७ ) जात्याः पुष्पं जाती । विदार्या मूलं विदारी । बहुलग्रहणान्नेह-पाट्लानि पुष्पाणि । साल्वानि मूलानि ॥ बाहुलकात्क्वचिल्लुक्-अशोकम् । करवीरम् ॥ ^Aहरीतक्यादिभ्यश्च ।४।३।१६७॥ एभ्यः फलप्रत्ययस्य लुप्स्यात् ॥ हरीतक्यादीनां लिङ्गमेव प्रकृतिवत् । हरी- तक्याः फलानि हरीतक्यः ॥ कंसीयपरशव्ययोर्यञञौ लुक् च ।४।३।१६८॥ कंसीयपरशव्यशब्दाभ्यां यञञौ स्तश्छयतौश्च लुक् ॥ कंसाय हितं कंसीयम्, तस्य विकारः कांस्यम् । परशवे हितं परशव्यम्, तस्य विकारः पारशवः ॥ इति प्राग्दीव्यतीयप्रकरणम् । अथ ठगधिकारप्रकरणम् । प्राग्वहतेष्ठक् ।४।४।१ ॥ 'तद्वहतीत्यतः प्राक् ठगधिक्रियते ॥ तदाहोति ^Bमाशब्दा- दिभ्य उपसंख्यानम् * ॥ मा शब्दः कारि इति य आह स माशब्दिकः ॥ ^Cस्वागता- दीनां च ।७।३।७ ॥ ऐच् न स्यात् । स्वागतमित्याह स्वागतिकः । स्वाध्वरिकः । स्वङ्ग- स्यापत्यं स्वाङ्गिः । व्यङ्गस्यापत्यं व्याङ्गिः । व्यडस्यापत्यं व्याडिः ॥ व्यवहारेण चरति व्यावहा- रिकः । स्वपतौ साधु स्वापतेयम् ॥ आहौ ^Dप्रभूतादिभ्यः * ॥ प्रभूतमाह प्राभूतिकः ॥ पार्याप्तिकः ॥ पृच्छतौ ^Eसुस्नातादिभ्यः * ॥ सुस्नातं पृच्छति सौस्नातिकः । सौखशा- यनिकः । अनुशतिकादिः ॥ गच्छतौ ^Fपरदारादिभ्यः * ॥ पारदारिकः । गौरुतल्पिकः ॥ तेन दीव्यति खनति जयति जितम् ।४।४।२ ॥ अक्षैर्दीव्यति आक्षिकः । अभ्रया खनति आभ्रिकः । अक्षैर्जयति आक्षिकः । अक्षैर्जितमाक्षिकम् ॥ संस्कृतम् ।४।४।३ ॥ दध्ना संस्कृतं दाधिकम् । मारीचिकम् ॥ कुलत्थकोपधादण् ।४।४।४ ॥ ठकोऽपवादः ॥ कुलत्थैः संस्कृतं कौलत्थम् । तैत्तिडीकम् ॥ तरति ।४।४।५ ॥ उडुपेन तरति औडु- पिकः ॥ गोपुच्छाट्ठञ् ।४।४।६ ॥ गौपुच्छिकः ॥ नौद्व्यचष्ठन् ।४।४।७ ॥ नाविकः । घटिकः । बाहुभ्यां तरति बाहुका स्त्री ॥ चरति ।४।४।८ ॥ तृतीयान्तादृच्छति भक्षयती- त्यर्थयोष्ठक् स्यात् ॥ हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः ॥ आकर्षात् ष्ठल् । ४ । ४ । ९ ॥ आकर्षो निकषोपलः । आकषादिति पाठान्तरम् । तेन A हरीतकी, कोशातकी, नखरजनी, शष्कुण्डी, दाडी, दोडी, श्वेतपाकी, अर्जुनपाकी, द्राक्षा, काका, ध्वाङ्क्षा, गभीका, कण्टकारिका, पिप्पली, चिञ्चा, शेफालिका । इति हरीतक्यादिः ॥ B माशब्द, नित्यशब्द, कार्यशब्द । इति माशब्दादिः ॥ C स्वागत, स्वध्वर, स्वङ्ग, व्यङ्ग, व्यड, व्यवहार, स्वपति । इति स्वागतादिः ॥ D प्रभूत, पर्याप्त । इति प्रभूतादिः ॥ E सुस्नात, सुखरात्रि, सुखशयन । इति सुस्नातादिः ॥ F परदार, गुरुतल्प । इति परदारादिः । एते चत्वारोऽप्याकृतिगणाः ॥