वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 283, कुल 835 में से
संदर्भ में पढ़ेंख्यानम् * ॥ खरः । मुखरः । कुञ्जो हस्तिहनुः, कुञ्जरः ॥ नगपांसुपाण्डुभ्यश्च * ॥ नगरम् । पांसुरः । पाण्डुरः । पाण्डरशब्दस्तु अव्युत्पन्न एव ॥ कच्छ्वा ह्रस्वत्वं च कच्छुरः ॥ द्युद्रुभ्यां मः । ५ । २ । १०८ ॥ द्युमः । द्रुमः ॥ केशाद्वोऽन्य- तरस्याम् । ५ । २ । १०९ ॥ प्रकृतेनान्यतरस्यांग्रहणेन मतुपि सिद्धे पुनर्ग्रहणमिनिठन्योः समावेशार्थम् । केशवः । केशी । केशिकः । केशवान् ॥ अन्येभ्योऽपि दृश्यते * ॥ मणिवो नागविशेषः । हिरण्यवो निधिविशेषः ॥ अर्णसो लोपश्च * ॥ अर्णवः ॥ गाण्ड्यजग- त्संज्ञायाम् । ५।२।११०॥ ह्रस्वदीर्घयोरेणा तन्त्रेण निर्देशः ॥ गाण्डिवम्—गाण्डीवम् अर्जुनस्य धनुः । अजगवं पिनाकः ॥ काण्डाण्डादीरन्नीरचौ । ५ । २ । १११ ॥ का- ण्डीरः । आण्डीरः ॥ रजःकृष्यासुतिपरिषदो वलच् । ५।२।११२ ॥ रजस्वला स्त्री । कृषीवलः—'वले' इति दीर्घः । आसुतीवलः शौण्डिकः । परिषद्वलः । पर्षदिति पाठा- न्तरम् । पर्षद्वलम् ॥ अन्येभ्योऽपि दृश्यते * ॥ आतृवलः । पुत्रवलः । शत्रुवलः 'वले' इत्यत्र संज्ञायामित्यनुवृत्तेर्नेह दीर्घः ॥ दन्तशिखात्संज्ञायाम् । ५।२।११३ ॥ दन्तावलो हस्ती । शिखावलः केकी ॥ ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्म- लिनमलीमसाः । ५।२।११४ ॥ मत्वर्थे निपात्यन्ते ॥ ज्योतिष उपधालोपो नश्च प्रत्ययः ॥ ज्योत्स्ना ॥ तमस उपधाया इत्वं रश्च । तमिस्रा । स्त्रीत्वमतन्त्रम् ॥ शृङ्गादिनच् । शृङ्गिणः ॥ ऊर्जसो वलच् । तेन बाधा मा भूदिति विनिरपि । ऊर्जस्वी । ऊर्जस्वलः । ऊर्जोऽ- सुगागम इति वृत्तिस्तु चिन्त्या । ऊर्जस्वतीतिवदसुन्नन्तेनैवोपपत्तेः ॥ गोशब्दान्मिनिः । गोमी ॥ मलशब्दादिनच्