भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 286, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 286

तद्धितेषु विभक्तिसंज्ञकप्रकरणम् । (२३५) ततः । अतः । इतः । अमुतः । बहुतः । द्व्यादेस्तु—द्वाभ्याम् ॥ तसेश्च । ५ । ३ । ८ ॥ किंसर्वनामबहुभ्यः परस्य तसेस्तसिलादेशः स्यात् । स्वार्थे विभक्त्यर्थे च वचनम् ॥ पर्य- भिभ्यां च । ५।३।९ ॥ आभ्यां तसिल् स्यात् ॥ सर्वोभयार्थाभ्यामेव * ॥ परितः । सर्वत इत्यर्थः । अभितः । उभयत इत्यर्थः ॥ सप्तम्यास्त्रल् । ५ । ३ । १० ॥ कुत्र । यत्र । तत्र । बहुत्र ॥ इदमो हः । ५।३।११ ॥ त्रलोऽपवादः ॥ इशादेशः । इह ॥ किमोऽत् । ५।३। १२ ॥ वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमोऽद्वा स्यात्पक्षे त्रल् ॥ क्वाति । ७ । २ । १०५ ॥ किमः क्वादेशः स्यादति ॥ क्व । कुत्र ॥ वा ह च छन्दसि । ५।३।१३ ॥ कुह स्थः कुह जग्मथुः ॥ एतदस्त्रतसोरेतस्रौ चानुदात्तौ । २ । ४ । ३३ ॥ अन्वादेशविषये एतदोऽश् स्यात्स चानुदात्तस्त्रतसोः परतः तौ चानुदात्तौ स्तः ॥ एतस्मिन् ग्रामे सुखं वत्स्यामः । अथो अत्रा- धीमहे । अतो न गन्तास्मः ॥ इतराभ्योऽपि दृश्यन्ते । ५ । ३ । १४ ॥ पञ्चमीसप्तमीतर- विभक्त्यन्तादपि तसिलादयो दृश्यन्ते ॥ दृशिग्रहणाद्भवदादियोग एव । स भवान् । ततो भवान् । तत्र भवान् । तं भवन्तम् । ततो भवन्तम् । तत्र भवन्तम् । एवं दीर्घायुः । देवो- नांप्रियः । आयुष्मान् ॥ सर्वैकान्यकिंयत्तदः काले दा । ५ । ३ । १५ ॥ सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थे दा स्यात् ॥ सर्वस्मिन्काले सदा । सर्वदा । एकदा । अन्यदा । कदा । यदा । तदा । काले किम् ? सर्वत्र देशे ॥ इदमो हिल् । ५ । ३ । १६ ॥ सप्तम्यन्तात्काले इत्येव । हस्यापवादः ॥ अस्मिन्काले एतर्हि ॥ काले किम् ? इह देशे ॥ अधुना । ५।३। १७ ॥ इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थेऽधुनाप्रत्ययः स्यात् ॥ इश् । यस्येति लोपः । अधुना ॥ दानीं च । ५।३।१८ ॥ इदानीम् ॥ तदो दा च । ५ । ३ । १९ ॥ तदा । तदा- नीम् । तदो दावचनमनर्थकं विहितत्वात् * ॥ अनद्यतने हिलन्यतरस्याम् । ५।३।२१ ॥ कर्हि । कदा । यर्हि । यदा । तर्हि । तदा । एतस्मिन्काले एतर्हि ॥ सद्यःपरुत्परार्यै- षमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः । ५।३।२२ ॥ एते निपात्यन्ते ॥ समानस्य सभावो द्यस् चाहनि * ॥ समानेऽहनि सद्यः ॥ पूर्वपूर्वतरयोः परः उदारौ च प्रत्ययौ संवत्सरे * ॥ पूर्वस्मिन्संवत्सरे परुत् । पूर्वतरे वत्सरे परारि ॥ इदम इश् समसण् प्रत्ययश्च संवत्सरे * ॥ अस्मिन्संवत्सरे ऐषमः ॥ परस्मादेद्य- व्यहनि * ॥ परस्मिन्नहनि परेद्यवि ॥ इदमोऽश् द्यश्च * ॥ अस्मिन्नहनि अद्य । पूर्वादिभ्योऽ- ष्टभ्योऽहन्येद्युसुच् * ॥ पूर्वस्मिन्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । उभयोरह्णोरुभयेद्युः । द्युश्चोभयाद्वक्तव्यः * ॥ उभयद्युः ॥ प्रकारवचने थाल् । ५।३।२३ ॥ प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात्स्वार्थे ॥ तेन प्रकारेण तथा । यथा ॥ इदमस्थमुः । ५।३।२४ ॥ १ दीर्घायुरायुष्मतोर्मध्येपाठाद् ‘देवानांप्रियः’ शब्दो दीर्घायुःपर्याय एव । न मूर्खपर्यायः । अत एव ‘प्रतिज्ञो भवान् देवानांप्रियः न त्विष्टिज्ञः’ इति सूतवाक्ये ‘दीर्घायुरपि भवान् इष्टिज्ञो न’ इति वैयाकरणहास्यं संगच्छते ॥