वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 29, कुल 835 में से
संदर्भ में पढ़ेंचेद् ॥ अत्रोच्यते ॥ “ब्राह्मणेन निष्कारणेन षडङ्गो वेदोऽध्येयो ज्ञेयश्च” इति श्रुत्या, “द्वे विद्ये वेदितव्ये परा चैवापरा च । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वणवेदश्शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् ” इति मुण्डकश्रुत्या, “स्वाध्यायोऽध्येतव्यः”, “स्वाध्यायप्रव- चनाभ्यां न प्रमदितव्यम्” इति श्रुतिभ्यां “छन्दः पादौ तु वेदस्य हस्तौ कल्पोथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते । शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्सा- ङ्गमधीत्यैव ब्रह्मलोके महीयते” इति शिक्षावाक्येन, “द्वे च विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः । परया त्वक्षरप्राप्तिः ऋग्वेदादिमयी परा” इति विष्णुपुराणोक्त्या, “द्वे च विद्ये वेदितव्ये परा चैवापरा द्विज । ऋग्यजुस्सामाथर्वाख्यो वेदा अङ्गानि षड् द्विजाः । शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा । छन्दश्शास्त्रं च मीमांसा धर्मशास्त्रं पुराणकम् । न्यायो वैद्यकगांधर्वधनु- र्वेदार्थशास्त्रकम् । अपरेयं परा विद्या तया ब्रह्म निगद्यते” इत्याग्नेयोक्त्या च, यथा “अहरह- स्सन्ध्यामुपासीत” इत्यादिश्रुत्या सन्ध्यावन्दनादिकं दृष्टफलाश्रवणेपि कारणमनपेक्ष्यैव कर्तव्य- त्वेन विधीयते, तथा वेदवेदाङ्गतदुपाङ्गाध्ययनमपि कारणमनपेक्ष्यैव ब्राह्मणस्य कर्तव्यत्वेन विधी- यते । किंच “सत्यान्मा प्रमदः” “सत्यं वद” “नानृतं वदेद्” इति श्रुतिभ्यः “न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः” इति भाष्याद् यज्ञे कर्मण्यपशब्दो- च्चारणे “सारस्वतीयामिष्टिं निर्वपेद्” इति श्रुतेः “विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” इति स्मृतेश्च कर्तव्येन विहितस्य वेदतदङ्गाध्ययनस्या- करणेऽविहितस्यापशब्दस्योच्चारणे सुशब्दस्यानुच्चारणे वा सत्यप्रमादादिजन्यप्रत्यवायजन्यापूर्वद्वार- कानिष्टभयोत्पत्त्यापत्तेस्तन्निवृत्तये तदध्ययनं विहितम् । किञ्च “ यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् । स वै दुर्ब्राह्मणो ज्ञेयः सर्वकर्मबहिष्कृतः ” इति स्मृतेः “योऽनधीत्य द्विजो वेद- मन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ” इति स्मृतेः “द्विजातीनाम- ध्ययनमिज्या दानमिति ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः पूर्वेषु नियमः ” इति गौतमो- क्तेः, “तपो दमो दया दानं सत्यं धर्मश्श्रुतं घृणा । विद्या विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ” इति स्मृतेः, “ वेदः कृत्स्नोधिगन्तव्यस्स्रहस्यो द्विजन्मना । कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च । कुलान्यशु विनश्यन्ति ” इति मनुस्मृतेश्च द्विजानां श्रुतविद्याध्ययनाध्यापनाग्निहोत्राचर- णदानतपोदमदयासत्यविज्ञानसंपादनास्तिकत्वान्यावश्यकानि भवन्ति । किं च “शास्त्रं सुनिश्चि- तमपि प्रतिचिन्तनीयमाराधितोपि नृपतिः परिशङ्कनीयः । अङ्के स्थितापि युवतिः परिपाल- नीया शास्त्रे नृपे च युवतौ च कुतो वशित्वम् ” इति नीतिकृदुक्तेरावर्तनादिकं चात्यावश्य- कम् । “विद्या विहीनः पशुः ” इत्युक्तिरप्युक्ताशयेनैव । एवं चैतदध्ययनं ब्राह्मणस्य नित्यमिति सिद्धम् ॥ तथा काम्यत्वमपि—“एकश्शब्दस्सम्यग्ज्ञातः सुष्ठु प्रयुक्तश्शास्त्रान्वितस्स्वर्गे लोके कामधुग्भवति” इति श्रुत्या मतान्तरे स्मृत्या “ अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्राणि विद्या ह्येताश्चतुर्दश ” “ पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ” इति च स्मृतिभ्यां धर्मादिकाम्यफलसम्पादकत्वोक्तेः ।