भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 293, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 293

(२४२) सिद्धान्तकौमुद्याम्-

जातिशब्दान्मा भूत् ॥ $^A$दामन्यादित्रिगर्तषष्ठाच्छः । ५।३।११६ ॥ दामन्यादिभ्य- स्त्रिगर्तषष्ठेभ्यश्चायुधजीविसङ्घवाचिभ्यः स्वार्थे छः स्यात् ॥ त्रिगर्तः षष्ठो वर्गो येषां ते त्रिगर्तषष्ठाः ॥ आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी ॥ कौष्टकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जानिकः ॥ १ ॥ दामनीयः । दामनीयौ । दामनयः । औलपि-औलपीयः ॥ त्रिगर्तषष्ठाः । त्रैगर्तीयः । कौण्डोपरथीयः । दाण्डकीयः ॥ $^B$पर्श्वादियौधेयादि$^C$भ्योऽणञौ । ५।३। ११७ ॥ आयुधजीविसङ्घवाचिभ्य एभ्यः क्रमादणञौ स्तः स्वार्थे ॥ पार्श्वः । पार्श्वौ । पर्शवः । यौधेयः । यौधेयौ । यौधेयाः ॥ अभिजिद्विदभृच्छालावाच्छिखावच्छमी- वद्पूर्णावच्छुद्मदणो यञ् । ५।३।११८ ॥ अभिजिदादिभ्योऽणन्तेभ्यः स्वार्थे यञ् स्यात् ॥ अभिजितोऽपत्यमाभिजित्यः । वैदभृत्यः । शालावत्यः । शैखावत्यः । शामीवत्यः । और्णा- वत्यः । श्रौमत्यः ॥ ञ्यादयस्तद्राजाः । ५।३।११९ ॥ ‘पूगाञ्ञ्यः इत्यारभ्य उक्ता एत- त्संज्ञाः स्युः ॥ तेनास्त्रियां बहुषु लुक् । लोहितध्वजाः । कपोतपाकाः । कौञ्जायनाः । ब्राध्‍ना- यना इत्यादि ॥ पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च । ५।४।१ ॥ लोपव- चनमनेमित्तिकत्वार्थम् । अतो न स्थानिवत् । ‘पादः पत्’ ‘तद्धितार्थ’ इति समासे कृते प्रत्ययः । वुन्नन्तं क्रियामेव । द्वौ द्वौ पादौ ददाति द्विपदिकाम् द्विशतिकाम् ॥ पादश- तग्रहणमनर्थकमन्यत्रापि दर्शनात् * ॥ द्विमोदकिकाम् ॥ दण्डव्यवसर्गयोश्च । ५।४।२ ॥ वुन् स्यात् । अवीप्सार्थमिदम् । द्वौ पादौ दण्डितः द्विपदिकाम् । द्विशतिकाम् । व्यवसृजति ददातीत्यर्थः ॥ $^D$स्थूलादिभ्यः प्रकारवचने कन् । ५।४।३ ॥ जातीयरोऽपवादः । स्थूलकः । अणुकः ॥ चञ्चद्बृहतो रूपसंख्यानम् * ॥ चञ्चत्कः । बृहत्कः ॥ सुराया अहौ ॥ सुरावर्णोऽहिः सुरकः ॥ अनत्यन्तगतौ क्तात् । ५।४।४ ॥ छिन्नकम् । भिन्नकम् । अभि- न्नकम् ॥ न सामिवचने । ५।४।५ ॥ सामिपर्याये उपपदे क्तान्तान्न कन् ॥ सामिकृतम् । अर्धकृतम् । अनत्यन्तगतेरिह प्रकृत्यैवाभिधानात्पूर्वेण कन् न प्राप्तः । इदमेव निषेधसूत्रमत्यन्त-


A दामनि, औलपि, बैजवापि, औदकि, औदङ्कि, आच्युतन्ति, आच्युतदन्ति, शाकुन्तकि, आकिदन्ति, औडवि, काकदन्तकि, शात्रुन्तपि, सार्वसेनि, बिन्दु, बैन्दवि, तुलम, मौञ्जायनि, काकन्दि, सावित्रीपुत्र । इति दामन्यादिः ॥ B पर्शु, असुर, रक्षस्, बाह्लीक, वयस्, वसु, मरुत्, सत्वत्, दशार्ह, पिशाच, अशनि, कार्षापण । इति पर्श्वादिः ॥ C यौधेय, कौशेय, शौकेय, शौभ्रेय, धौर्तेय, धार्तेय, ज्याबाणेय, त्रिगर्त, भरत, उशीनर । इति यौधेयादिः ॥ D स्थूल, अणु, माष, इषु, कृष्ण, तिलेषु, यव, व्रीहिषु, इक्षु, तिल, पाद्य, कालावदात सुरायाम्, ‘गोमूत्र आच्छादने’ ‘सुरा अहौ’ ‘जीर्ण शालीषु’ ‘पत्रमूल, समस्तो व्यस्तश्च’ कुमारी- पुत्र, कुमारीश्वशुर, मणि । इति स्थूलादिः ॥