वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 299, कुल 835 में से
संदर्भ में पढ़ेंसर्वनाम्नो द्वे वाच्ये समासवच्च बहुलम् * ॥ बहुलग्रहणादन्यपरयोर्न समासवत् । इतरश- ब्दस्य तु नित्यम् ॥ असमासवद्भावे पूर्वपदस्य सुपः सुर्वक्तव्यः*॥ अन्योन्यं विप्रा नमन्ति। अन्योन्यौ । अन्योन्यान् । अन्योन्येन कृतम् । अन्योन्यस्मै दत्तमित्यादि । अन्योन्येषां पुष्करै- रामृशन्त इति माघः । एवं परस्परम् । अत्र कस्कादित्वाद्विसर्गस्य सः । इतरेतरम् । इतरे- तरेणेत्यादि ॥ स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा वक्तव्यः * ॥ अन्यो- न्याम् । अन्योन्यम् । परस्पराम् । परस्परम् । इतरेतराम् । इतरेतरं वा इमे ब्राह्मण्यौ कुले वा भोजयतः ॥ अत्र केचित्—आमादेशो द्वितीयाया एव । भाष्यादौ तथैवोदाहृतत्वात् । तेन स्त्रीनपुंसकयोरपि तृतीयादिषु पुंवदेव रूपमित्याहुः । अन्ये तूदाहरणस्य दिङ्मात्रत्वात्सर्ववि- भक्तीनामामादेशमाहुः ॥ दलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमोः ॥ समासे सोरलुक्चेति सिद्धं बाहुलकात्त्रयम् ॥ १ ॥ तथाहि । अन्योन्यं परस्परमित्यत्र दलद्वयेऽपि टाप् प्राप्तः । न च 'सर्वनाम्नो वृत्ति- मात्रे पुंवद्भावः' । अन्यपरयोरसमासवद्भावात् । नच द्विर्वचनमेव वृत्तिः । 'यां यां प्रियः प्रैक्षत कातराक्षीं सा सा' इत्यादावतिप्रसङ्गात् । अन्योन्यमितरेतरमित्यत्र च 'अद्ड्डतरा- दिभ्य इत्याद् प्राप्तः । 'अन्योन्यसंसक्तमहत्त्रियामम्' । अन्योन्याश्रयः । परस्पराक्षिसादृश्यम् । अदृष्टपरस्परैरित्यादौ सोर्लुक्च प्राप्तः । सर्वं बाहुलकेन समाधेयम् । प्रकृतवार्तिकभाष्योदाहरणं 'स्त्रियामिति सूत्रे 'अन्योन्यसंश्रयं त्वेतद्' इति भाष्यं चात्र प्रमाणमिति ॥ अकृच्छ्रे प्रियसुख- योरन्यतरस्याम् ।८।१।१३ ॥ प्रियप्रियेण ददाति । प्रियेण वा । सुखसुखेन ददाति । सुखेन वा । द्विर्वचने कर्मधारयवद्भावात्सुब्लुकि पुनस्तदेव वचनम् । अतिप्रियमपि वस्त्व- नायासेन ददातीत्यर्थः ॥ यथास्वे यथायथम् ।८।१।१४ ॥ यथास्वमिति वीप्सायामव्य- यीभावः । योऽयमात्मा यच्चात्मीयं तद्यथास्वम् । तस्मिन्यथाशब्दस्य द्वे क्लीबत्वं च निपात्यते ॥ यथायथं ज्ञाता । यथास्वभावमित्यर्थः । यथात्मीयमिति वा ॥ द्वन्द्वं रहस्यमर्यादावच- नव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु । ८ । १ । १५ ॥ द्विशब्दस्य द्विर्वचनं पूर्व- पदस्याम्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एष्वर्थेषु ॥ तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम् । इतरे विषयभूताः ॥ द्वन्द्वं मन्त्रयंते । रहस्यमित्यर्थः ॥ मर्यादा स्थित्यनतिक्रमः । आचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते । माता पुत्रेण मिथुनं गच्छति—पौत्रेण प्रपौत्रेणा- पीत्यर्थः ॥ व्युत्क्रमणं पृथगवस्थानम् । द्वन्द्वं व्युत्क्रान्ताः । द्विवर्गसंबन्धेन पृथगवस्थिताः ॥ द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ॥ द्वन्द्वं संकर्षणवासुदेवौ । अभिव्यक्तौ साहचर्येणेत्यर्थः । योग- विभागादन्यत्रापि द्वन्द्वमिष्यते ॥ इति द्विरुक्तप्रकरणम् । ॥ इति श्रीमद्भट्टोजीदीक्षितविरचितायां सिद्धान्तकौमुद्यां पूर्वार्धं समाप्तम् ॥ इति श्रीदाधिमथशिवदत्तविनिर्मितायां सारदर्शिन्यां द्विरुक्तप्रक्रिया समाप्ता । शिवदत्तो दाधिमथष्टिप्पणीं सारदर्शिनीम् । दधिमथ्याः प्रसादेन पूर्वार्धे समपूपुरत् ॥