वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 304, कुल 835 में से
संदर्भ में पढ़ेंस्यात् ॥ अतो गुणे । भवन्ति ॥ भवसि । भवथः । भवथ ॥ अतो दीर्घो यञि । ७।३।१०१ ॥ अतोऽङ्गस्य दीर्घः स्याद् यञादौ सार्वधातुके परे ॥ भवामि । भवावः । भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं भवथ । अहं भवामि । आवां भवावः । वयं भवामः ॥ ऐहि मन्ये ओदनं भोक्ष्यसे इति भुक्तः सोऽतिथिभिः । एतमेत वा मन्ये ओदनं भोक्ष्येथे । भोक्ष्यध्वे ॥ भोक्ष्ये । भोक्ष्यावहे । भोक्ष्यामहे ॥ मन्यसे । मन्येथे । मन्यध्वे इत्यादिरर्थः । युष्मद्युपपदे इत्याद्यनुवर्तते । तेनेह न—एतु भवान्मन्यते ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिः ॥ प्रहासे किम् ? यथार्थक- थने मा भूत्—एहि मन्यसे ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिरित्यादि ॥ परोक्षे लिट् ।३।२।११५ ॥ भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात् ॥ लस्य तिवादयः ॥ लिट् च ।३।४।११५ ॥ लिडादेशस्तिङार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः ॥ तेन शत्रा- दयो न ॥ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ।३।४।८२ ॥ लिटस्तिवादीनां नवानां णलादयो नव स्युः ॥ भू अ इति स्थिते ॥ भुवो वुग्लुङ्लिटोः ।६।४।८८ ॥ भुवो वुगागमः स्यात् लुङ्लिटोरचि ॥ नित्येत्वाद्वुग्गुणवृद्धी बाधते ॥ एकाचो द्वे प्रथ- मस्य ।६।१।१ ॥ अजादेर्द्वितीयस्य ।६।१।२ ॥ इत्यधिकृत्य ॥ लिटि धातोरन- १ स्थान्यलाश्रयविधौ स्थानिवत्त्वाप्रवृत्तेर्नेह “अतो दीर्घो यञि” इति सूत्रप्रवृत्तिरिति ध्वनयन्नाह—अतो गुणे इति । न च शबकारान्त्यकारयोः पररूपे कृते “सार्वधातुकमपित्” इति ङित्त्वेन “क्ङिति च” इति निषेधाद् गुणो न स्यादिति वाच्यम्, “अचः परस्मिन्” इति स्थानिवत्त्वेन गुणप्रवृत्तेः सुलभत्वात् । नचैवमपि “वर्णादाङ्गम्—” इति न्यायेनैकादेशात् पूर्वमेव गुणः स्यादिति वाच्यम्, वर्णाङ्गयोः समानस्था- निकत्वे एव तत्प्रवृत्त्यङ्गीकारेण प्रकृते तथात्वाभावात् ॥ २ श्वशुरगृहे गतं पुरुषं प्रति सख्युपोढेन परिहास- शीलस्यालकादेर्वाक्यमुदाहरति—एहि मन्ये इत्यादि । भो देवदत्त ! त्वमेहि, त्वं मन्यसे—‘अहमोदनं भोक्ष्ये’ इति स ओदनोऽतिथिभिर्भुक्त इत्यर्थः ॥ एतमेत वेति । भो देवदत्तौ ! युवामेतं युवां मन्येथे ‘आवामोदनं भोक्ष्यावहे' इति भुक्तः स इत्यादिपूर्ववत् । भो देवदत्ताः ! यूयमेत यूयं मन्यध्वे ‘वयमोदनं भोक्ष्यामहे' इति, भुक्त इत्यादि पूर्ववत् । इत्यर्थः । यस्य स्थाने आदेशः तं स्थानिनमेव दर्शयति—भोक्ष्ये इत्यादिना । ३ परोक्षे लिडिति । साक्षात् कृतमित्येतादृशविषयताशालिज्ञानाविषयत्वं परोक्षत्वम् । एवं च मनसोऽसां- निध्यात्प्रत्यक्षत्वाभावेनोत्तमपुरुषोपि भवतीति भाष्ये स्पष्टमिति “घटमहं चकार” इत्यादिरूपाणां नासङ्गतिरिति दिक् ॥ अतीताया रात्रेः पश्चार्धेनागामिन्याः पूर्वार्धेन च सहितः सकलो दिवसोऽद्यतनस्तद्भिन्नोऽनद्यतनः ॥ ४ ननु “भू अ” इति दशायां वुकं बाधित्वा परत्वाद् गुणवृद्धी स्यातामिति चेत्तत्राह—नित्यत्वादिति । “परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः” इति परिभाषया परापेक्षया नित्यस्य बलवत्त्वबोधनादिति भावः । गुणे वृद्धौ च ‘अचः परस्मिन्’ इति स्थानिवत्त्वेन भूशब्दत्वात् कृताकृतप्रसङ्गित्वेन वुको नित्यत्वमिति भावः ॥ न च “शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति” इति परिभाषया वुकोऽपि नित्यत्वाभाव एवेति वाच्यम्, “क्वचित्कृताकृतप्रसङ्गमात्रेणापि नित्यता” इति परिभाषाबोधितस्य कृताकृतप्रसङ्गित्त्वस्यैव लक्ष्यानुरोधेन प्रकृते आश्रयणेन वुको नित्यत्वानपायात् । नचैवमपि “द्विर्वचनेऽचि” इति निषेधाद् गुणा- देरप्राप्तौ मूलमसङ्गतमिति वाच्यम्, “सार्वधातुकार्धधातुकयोः” इति गुणस्य द्वित्वनिमित्तघटकाच्पर्याप्तनि- मित्तताकाजादेशाभावेन “द्विर्वचनेऽचि” इत्यस्याप्राप्तेः, इति केचित् ॥ अन्ये तु—“द्विर्वचनेऽचि” इति सूत्रं स्थानिरूपातिदेशविधायकमिति मतेन मूलं योजयन्ति ॥