भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 312, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 312

तिङन्ते भ्वादिप्रकरणम् । ( २६१ ) उपसर्गास्त्वर्थविशेषस्य द्योतकाः । प्रभवति । पराभवति । संभवति । अनुभवति । अभिभवति । उद्भवति । परिभवतीत्यादौ विलक्षणार्थावगतेः । उक्तं च—‘उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ १ ॥’ इति ॥ एध वृद्धौ । कत्थन्ताः षट्त्रिंशदनुदात्तेतः ॥ टित आत्मनेपदानां टेरे । ३।४।७९ ॥ टितो लस्यात्मनेपदानां टेरेत्वं स्यात् । एधते ॥ सार्वधातुकमपित् । १।२।४ ॥ अपित्सार्वधातुकं ङिद्वत्स्यात् ॥ आतो ङितः । ७।२।८१ ॥ अतः परस्य ङितामाकारस्य इय् स्यात् । एधेते । एधन्ते ॥ थासः से । ३।४।८० ॥ टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । अतो गुणे । एधे । एधावहे । एधामहे ॥ इजादेश्च गुरुमतोऽनृच्छः । ३।१।३६ ॥ इजादिर्यो धातु- र्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि ॥ आँमो मकारस्य नेत्त्वम् । आस्कासोराम् विधानाज्ज्ञा- पकात् ॥ आमः । २।४।८१ ॥ आमः परस्य लुक् स्यात् ॥ कृञ्चानुप्रयुज्यते लिटि । १ ननूपसर्गाणां वाचकत्वस्य “ आ ” इत्यर्वागर्थे इत्यादिना यास्काचार्येणाङ्गीकृतत्वेन तैरेव नानार्थबोधे सिद्धे किमुपलक्षणत्वेनेति शङ्कां परिहरन्नाह–उपसर्गास्त्विति ॥ द्योतका इति । यथा प्रदीपसंयोगे द्रव्यस्य गुण- विशेषोऽभिव्यज्यमानो द्रव्याश्रय एव भवति, न प्रदीपाश्रयः तथैव धातोरेवार्थविशेषः सत्युपसर्गसंयोगे व्यज्यते, न तु वाचका इति हृदयम् । उपसर्गाणां वाचकत्वाङ्गीकारे तु “ अनुभूयते ” इत्यादौ कर्मणि लकाराद्यनुपपत्तिः स्यात्, अनुभव्यरूपफलस्यानुपसर्गार्थत्वेन धातोरकर्मकत्वात् । “उपसर्गाः” इत्युक्त्या निपातानां द्योतकत्वं वाचकत्वं वाभ्युपैति ॥ २ द्योतकत्वे सम्मतिमपि दर्शयति–उपसर्गेणेति।उपसर्गेण=प्रादिना, धात्वर्थः=सत्तादिरूपः,= अबलात्=बलाभावात् निबर्लत्वादित्यर्थः, अस्वतन्त्रत्वादिति यावत् । अन्यत्र=अन्यस्मिन्नर्थे, नीयते=प्राप्यते किंवत्–प्रहाराहारसंहारविहारपरिहारवत् । हरणार्थोऽपि हरतिः तत्तदुपसर्गवशात् प्रहरणार्थः, एवमाहरणार्थः, संहरणार्थः, विहरणार्थः, परिहरणार्थश्च यथा सम्पद्यते तथेत्यर्थः । अत्र “ अबलात् ” इति च्छेदः, नतु “ बलात् ” इति । तथा सति उपसर्गाणां द्योतकत्वं व्याहन्येत । अपि तु वाचकत्वमेव स्यादिति केचित् ॥ महामहोपाध्यायोपपदाऽलङ्कृताः श्रीगुरुचरणास्तु– “ उपसर्गेण नीयते ” इति पाठे नयनकर्तृत्वस्योपसर्गे एवाङ्गी- कारे बलाभावेऽस्वतन्त्रत्वे च कर्तृत्वं नैव घटतरमिति नयनकर्मण एवास्वतन्त्रत्वस्य सर्वत्राङ्गीकाराद् धातावस्व- तन्त्रत्वमुपसर्गेषु स्वतन्त्रत्वमिति विपरीतमेव स्यात् । तस्मात् “उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते” इत्येव पाठो भवेत् । उपसर्गेण–उपसर्गसंसर्गेण, बलात्–शब्दशक्तिस्वभावात्, अन्य एव धात्वर्थः प्रतीयते” इति च तदर्थः । “अन्यत्र नीयते” इति पाठे उपसर्गेण कर्त्रा बलात्कारेण धात्वर्थोऽन्यत्र=केवलस्य प्रसिद्धा- र्थाद् भिन्नेऽर्थे नीयते=अर्थाद् विलक्षणो धात्वर्थ एव प्रत्याय्यते न स्वार्थ इत्यनेनोपसर्गाणां द्योतकत्वमेव चेति सूचितम् । अधिकरणत्वविवक्षया कर्मत्वं नेति वदन्ति ॥ द्योतकत्वं च समभिव्याहृतपदशक्त्युद्बो- धकत्वम् ॥ ३ इट् एत्वे कृते “एध ए” इति दशायाम् “आद्गुणः” इति गुणं बाधित्वा “वृद्धिरेचि” इति वृद्धौ प्राप्तायामाह–अतो गुण इति । ४ आमो मकारस्य “हलन्त्यम्” इतीत्संज्ञा कस्मान्न भवती- त्यत आह–आमो मस्य नेत्त्वमिति ॥ तत्र प्रमाणमाह–आस्कासोरिति । सति हि मित्त्वे आस्कासो- राम् भवन्नपि “मिदचोऽन्त्यात् परः” इत्यचामन्त्यात् परः स्यात् तथा च “अकः सवर्णे दीर्घः” इति सव- र्णदीर्घत्वे सत्यकिंचित्करः स्यात्, अतः “दयायासश्च” इति “कास्प्रत्ययादाममन्त्रे लिटि” इति च आस्कासो- राम्विधानं व्यर्थं सद् “हलन्त्यम्” इति प्राप्तेत्संज्ञाया अभावं ज्ञापयतीति भावः ॥ ननु आम्प्रत्ययस्यादन्त- त्वाङ्गीकारेण तस्य च “उपदेशेऽजनुनासिक इत्” इतीत्संज्ञा निवृत्तावपि उपदेशेऽन्त्य- हलोऽभावान्नेत्संज्ञाप्रवृत्तिरिति किं ज्ञापकेन ॥ नचादन्तत्वे “आमः” इति सूत्रनिर्देशानुपपत्तिरिति वाच्यम्, उत्सृष्टानुबन्धेन निर्देश इत्यङ्गीकारेणादोषात् ॥ नैवमपि “कास्प्रत्ययादाममन्त्रे लिटि” इति सूत्रघटिता- ममन्त्र इति निर्देशानुपपत्तिरेवेति वाच्यम्, “सर्वत्र लोहितादिकतन्तेभ्यः” इत्यत्र पररूपवत् शक्न्ध्वादेराकृति-