वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 318, कुल 835 में से
संदर्भ में पढ़ेंतिङन्ते भ्वादिप्रकरणम् । ( २६७ ) विन्दतिंश्चान्द्रदौर्गादेरिष्टो भाष्येऽपि दृश्यते । व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितम् ॥ १० ॥ रञ्जि-मस्जी अदि-पदी, तुद् श्रुञ् शुषि--पुषी शिषिः ॥ भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसंमतेः ॥ ११ ॥ स्पर्ध संघर्षे । संघर्षः पराभिभवेच्छा । धात्वर्थेनोपसंग्रहादकर्मकः । स्पर्धते ॥ शर्पूर्वाः खयः । ७।४।६१ ॥ अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते । हलादिः शेष इत्यस्यापवादः । पस्पर्धे । स्पर्धिता । स्पर्धिष्यते । स्पर्धताम् । अस्पर्धत । स्पर्धेत । स्पर्धिषीष्ट । अस्पर्धिष्ट । अस्पर्धिष्यत ॥ ३ ॥ गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च । गाधते । जगाधे ॥ ४ ॥ बाधृ लोडने । लोडनं प्रतिघातः । बाधते ॥ ५ ॥ र्नाथृ नाथृ याच्ञोपतापैश्वर्याशीःषु ॥ आशिषि नाथ इति वाच्यम् * ॥ अंश्याशिष्येवात्मनेपदं स्यात् ॥ नाथते । अन्यत्र नाथति ॥ ६ ॥ नाधते ॥ ७ ॥ दध धारणे । दधते ॥ अत एकहल्मध्येऽनादेशादेर्लिटि । ६।४।१२० ॥ लिङ्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्याकारस्य एकारः स्यादभ्या- सलोपश्च किति लिटि ॥ थलि च सेटि । ६।४।१२१ ॥ प्रागुक्तं स्यात् ॥ आंदेशश्चेह वैरू- १ विन्दतिरिति । चान्द्रदौर्गादेः ( मते इति शेषः ) विन्दतिः = विद्लृ लाभे इति धातुः, इष्टः=अभीष्टः, अनिट्त्वेनेति शेषः ॥ भाष्येऽपि दृश्यते = अवलोक्यते ॥ कोऽन्यथा ब्रवीति येनैवमुच्यते 'चान्द्रदौर्गादे- रीति, तत्राह-व्याघ्रभूत्यादयस्त्विति । तुशब्दः पूर्वपक्षव्यावर्तकोऽरुचौ वा । व्याघ्रभूत्यादयस्तु एनम् = विन्दतिधातुम्, इह = अनिट्कारिकायाम्, न पेठुः = न पठितवन्तः ॥ इति स्थितम्, तेषां ग्रन्थे इति शेषः॥ २ “रञ्जि” इत्यादि । रञ्जिप्रभृतयो नव धातवो भाष्यानुक्ताः = भाष्ये न कथिताः ॥ ननु भाष्यानु- कस्य साधुताया नियामकत्वाभावात् कथमहि त्वया ते नव पठिता इति चेत्, तत्राह-इहेति । व्याघ्रभूत्या- दिसम्मतेः, इह = अनिट्कारिकायाम्, उक्ताः = कथिताः, मयेति शेषः ॥ ३ अकर्मक इति । “देवदत्तो यज्ञदत्तं स्पर्धते” इत्यत्र स्पर्धापूर्वके शब्देने वृत्तिर्बोद्ध्या ॥ ४ शर्पूर्वा इति । अत्र “आदिः” इत्यनुवर्तते । “शेषः” इति च, शर् चात्र धातवादिभूत एव गृह्यते । तेन “वव्रश्च” इत्यत्र चस्य न शेषः ॥ ५ गाधृ इति । ऋकारः “अजगाधत्” इत्यत्र “नाग्लोपि” इति निषेधार्थः ॥ एवं सर्वत्रोन्नेयम् । स्थापना तत्स्थापनं वा प्रतिष्ठा । लब्धुमिच्छा लिप्सा । एकत्र स्थापनं सन्दर्भो वा ग्रन्थः । तत्राद्येऽक- र्मकः । इतरयोः सकर्मकः ॥ ६ "नाथू नाधू" इति । “उपतापो रोगः” इति वृत्तौ । “उपघात” इति तरङ्गिण्याम् । थान्तस्य नाथतेर्धान्तकाण्डे पाठोऽर्थसाम्यात् ॥ ७ अनुदात्तेत्त्वादेव सिद्धे नियमार्थं वार्तिक- मित्याह-आशिष्येवेति ॥ ८ एकशब्दोऽसहायवाची, द्विवचनान्तेन समासः । द्वयोरेव मध्यसंभवादि- त्याह-असंयुक्तोत्यादि । ‘नेमिथ’ सेहे, चकणतुरित्यत्रानुपपत्त्यापत्तिपरिहाराय “लिटि” इत्यावर्तते । तत्रै- कमादेशविशेषणम्, एकदेशान्वयेऽपि सौत्रत्वाद् वृत्तिस्तदाह-लिङ्निमित्तेति । ‘तन्निमित्तादेशादिभिन्नम्’ इत्यर्थः । द्वितीये ‘गमहन्-’ इत्यतोऽनुवृत्ते ‘क्तिति’ इत्यन्वितेपि लिटः कित्त्वमेव संभवतीत्याशयेनाह- किति लिटीति ॥ ९ ननु “देधे” इत्यादौ अभ्यासादेर्दकारस्य जश्त्वेन “प्रकृतिजशां प्रकृतिजशः” इत्युक्तत्वाद् दत्वेऽनादेशादित्वाभावेनैत्त्वाभ्यासलोपौ न स्याताम् ॥ नच “पूर्वत्रासिद्धम्” इत्यनेन “अभ्यासे चर्च” इत्यस्य “अत एकहल्मध्ये” इति सूत्रं प्रत्यसिद्धत्वप्रतिपादनेनैत्त्वाभ्यासलोपौ स्त एवेति वाच्यम्, “तृफलभजत्रपश्च” इत्यत्र फलभजग्रहणेन एत्त्वविधिं प्रति तत्सूत्रस्य सिद्धत्वज्ञापनात्, इति शङ्कायामाह- आदेशश्चेहेति ॥ तत्र ज्ञापकमाह-शसिदयोरिति । यद्यत्र सामान्यतो ग्रहणं पाणिनेरभिमतम