वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 328, कुल 835 में से
संदर्भ में पढ़ेंततश्चतुर्णां थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थम् ॥ अचस्तास्वत्थल्यनिटो नित्यम् ।७।२।६१॥ उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततः परस्य थल इण् न स्यात् ॥ उपदेशेऽत्वतः ।७।२।६२॥ उपदेशे अकारवतस्तासौ नित्यानिटः परस्य थल इण् स्यात् ॥ ऋतो भारद्वाजस्य ।७।२।६३ ॥ तासौ नित्या- निट ऋदन्तादेव थलो नेट् भारद्वाजस्य मतेन । तेनान्यस्य स्यादेव ॥ अयमत्र संग्रहः ॥ अजन्तोऽकारवान्वा यस्तास्यानिट् थलि वेडयम् । ऋदन्त ईदृक्स्यानिट् क्राद्यन्यो लिटि सेड् भवेत् ॥ १ ॥ न चं स्तुद्द्वादीनामपि थलि विकल्पः शङ्क्यः । अचस्तास्वदिति उपदेशेऽत्वत इति च योगद्वयप्रापितस्यैव हि प्रतिषेधस्य भारद्वाजनियमो निवर्तकः । अनन्तरस्येति न्यायात् । विवयिथ