वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 332, कुल 835 में से
संदर्भ में पढ़ेंनियमादिट् । तितिपिषे । तेप्ता । तेप्स्यते ॥ लिङ्सिचावात्मनेपदेषु १।२।११ ॥ इ- क्समीपाद्धलः परौ झलादी लिङ्सिच्वेत्येतौ कितौ स्तः ॥ कित्त्वान्न गुणः ॥ तिप्सीष्ट । तिप्सीयास्ताम् । तिप्सीरन् । लुङि । झलो झलीति सलोपः । अतिप्त । अति- प्साताम् । अतिप्सत । तेपते । तिनेपे । तितिपे । तितिपाते । तितिषिरे । तिथेपे । तिथे- पाते । तिथेपिरे ॥ तेपृ कम्पने च ॥ ४ ॥ ग्लेपृ दैन्ये । ग्लेपते ॥ ५ ॥ टुवेपृ कम्पने । वेपते ॥ ६ ॥ केपृ गेपृ ग्लेपृ च । चोत्कम्पने गतौ च । सूत्रविभागादिति स्वामी । मै- त्रेयैस्तु चकारमन्तरेण पठित्वा कम्पने इत्यपेक्षत इत्याह । ग्लेपेरर्थभेदात्पुनः पाठः ॥ ८ ॥ मेपृ रेप लेपृ गतौ ॥ ११ ॥ त्रपूष् लज्जायाम् । त्रपते ॥ तॄँफलभजत्रपश्च ६।४। १२२ ॥ एषामत एकारोऽभ्यासलोपश्च स्यात्किति लिटि सेटि थलि च ॥ त्रेपे । त्रेपाते । त्रेपिरे । उदित्त्वाद्विद्वा । त्रपिता । त्रप्ता । त्रपिषीष्ट । त्रप्सीष्ट ॥ १२ ॥ कपि चलने । कम्पते । चकम्पे ॥ १३ ॥ रवि लवि अवि शब्दे । रवते । ललम्बे । आनम्वे ॥ लबि अवस्रंसने च ॥ १६ ॥ कवू वर्णे । चकवे ॥ १७ ॥ क्लीवृ अधाष्ट्र्ये । चिक्लीवे ॥ १८ ॥ क्षीवृ मदे । क्षीवते ॥ १९ ॥ शीभृ कत्थने । शीभते ॥ २० ॥ वीभृ च ॥ २१ ॥ रेभृ शब्दे । रिरेभे ॥ २२ ॥ अँभि-रभी क्वचित्पठ्येते । अम्भते ॥ २३ ॥ रम्भते ॥ २४ ॥ ष्टभि स्कभि प्रतिबन्धे । स्तम्भते । उत्तम्भते ‘ उदः स्थास्तम्भोदिति पूर्वस- वर्णः ॥ विस्तम्भते ‘ स्तन्भेरिति षत्वं तु न भवति । स्नुविधौ निर्दिष्टस्य सौत्रस्यैव तत्र ग्रह- णात् । तद्बीजं तु—‘उदः स्थास्तम्भोरिति पवर्गीयोपधपाठः ‘स्तन्भेरिति तवर्गीयोपधपाठश्चेति माधवः ॥ केचिदस्य टकार औपदेशिक इत्याहुस्तन्मते—ष्टम्भते । टष्टम्भे ॥ २६ ॥ जभि- जृभी गात्रविनामे ॥ रधिजभोरचि । ७ । १ । ६१ ॥ एतयोर्नुमागमः स्यादचि ॥ जम्भते । जजम्भे । जम्भिता । अजम्भिष्ट । जृम्भते । जजृम्भे ॥ २८ ॥ शल्भ कत्थने । शशल्भे ॥ २९ ॥ वल्भ भोजने । दन्त्योष्ठ्यादिः । ववल्भे ॥ ३० ॥ गल्भ धौष्ट्र्यै । गल्भते ॥ ३१ ॥ श्रम्भू प्रमादे । तालव्यादिर्दन्त्यादिश्च । श्रम्भते स्रम्भते ॥ ३३ ॥ ष्टुभु स्तम्भे । स्तो- १ चकारेण पूर्वोत्तराथौवनुकृष्येते तदाह-चादिति । ननु चकारेण पूर्वार्थस्य संग्रहेऽपि उत्तरार्थसंग्रहे न मानमत आह-सूत्रविभागादिति “टुवेपृ” केपृ” गेपृ ” ग्लेपृ ” कम्पने ” इत्येवमेकयोगे कतव्ये योग- विभागस्तन्मर्थ्याच्चकारेण पूर्वोत्तरयोरर्थयोरनुकर्षोपकषीविति स्वामिनो भावः ॥ २ मैत्रेयस्त्विति । वेपतिना सहैषामपाठोऽप्रसिद्धत्वज्ञापनायेति तस्याभिप्रायः ॥ ३ तृफलभजेति । गुणशब्देन भाविताकारत्वाद् विरूपादेशादित्वाद् एकहल्मध्यस्थत्वाभावाच्च यथायथमप्राप्ते विधिरयम् ॥ ४ “कवू ” वर्णश्चात्र चित्ररू- पम् ॥ ५ “क्लीवृ” धृष्टो निर्लज्जः, तस्य भावो धाष्ट्र्यम् । न धाष्ट्र्यम् अधाष्ट्र्यं सलज्जता ॥ ६ अम्भः, अम्भसी, बाह्वादिगणे “अम्भसः सलोपश्च ” आम्भिः इत्यादिसिद्धये आह-अभिरभी इति ॥ ७ “ष्टभि स्कभि ” “प्रतिबन्धः प्रतिष्टम्भः” इत्यमरः । रोध इति यावत् ॥ ८ तद्बीजं त्विति ॥ पूर्वसवर्णप्रवृत्तिषत्वाप्रवृत्त्योर्बीजं त्वित्यर्थः ॥ स्नुष्वविध्योर्नकारनिपातनेन नैवानुस्वारपरसवणौ ‘ बाधकान्येव निपातनानि' इत्यङ्गीकारात् ॥ ९ “जृभी” गात्रविनामे गात्रस्वेदे ॥ १० “शल्भ” कथनं श्लाघा ॥ ११ 'गल्भ' धृष्टो निर्लज्जस्तस्य कर्म ॥ १२ “श्रम्भू” प्रमादोऽविमृष्टकृत्यम् । “प्रमादोऽनवधानता ” इत्यमरः ॥ १३ “ष्टुभु ” स्तम्भो निरोधः ॥