वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 367, कुल 835 में से
संदर्भ में पढ़ेंद्वित्वम् । णत्वस्यासिद्धत्वात् । ' पूर्वत्रासिद्धीयमद्विर्वचने ' इति त्वनित्यम् । ' उभौ साभ्यास- स्येति लिङ्गात् । ऊर्णुनाव । ऊर्णुनुवतुः । ऊर्णुनुवुः ॥ विभाषोर्णोः ॥ १।२।३ ॥ इडादि- प्रत्ययो वा ङित्स्यात् । ऊर्णुनुविथ । ऊर्णुनविथ । ऊर्णुविता । ऊर्णविता । ऊर्णोतु । ऊर्णुतात् । ऊर्णवानि । ऊर्णवै ॥ गुणोऽपृक्ते ॥ ७।३।९१ ॥ ऊर्णोतेर्गुणः स्यादपृक्ते हलादौ पिति सार्वधातुके । वृद्धयपवादः ॥ और्णोत् । और्णोः । ऊर्णुयात् । ऊर्णुयाः । इह वृद्धिर्न-ङिश्च पिन्नेति भाष्यात् । ऊर्णूयात् । ऊर्णुविषीष्ट । ऊर्णविषीष्ट । और्णुवीत् । और्णुविष्टाम् । ऊर्णोतेर्विभाषा ॥ ७।२।६ ॥ इडादौ सिचि परस्मैपदे परे वा वृद्धिः स्यात् ॥ पक्षे गुणः । और्णावीत् । और्णाविष्टाम् । और्णाविषुः । और्णवीत् ॥ ८ ॥ ष्णु अभिगमने । ष्णौति । ष्णोता ॥ ९ ॥ षु प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । सोता । असौषीत् ॥ १० ॥ कु शब्दे । कोता ॥ ११ ॥ ष्टुञ् स्तुतौ । स्तौति । स्तवीति । स्तुतः । स्तुवन्ति । स्तुते । स्तुवीते । ' स्तुसुधूञ्भ्य ईटीट् । अस्तावीत् । प्राक्सितादिति षत्वम् । अभ्यष्टौत् । सिवादीनां वा पर्यष्टौत् । पर्यस्तौत् ॥ १२ ॥ ब्रूञ् व्यक्तायां वाचि ॥ १ ननु "णत्वस्यासिद्धत्वात्" इत्यनुपपन्नम्, "पूर्वत्रासिद्धीयमद्विर्वचने" इति परिभाषया द्वित्वभिन्ने एवासिद्धत्वबोधनादत आह-पूर्वत्रासिद्धीयमिति । पूर्वत्रासिद्धशब्दोऽधिकारपरः । ततो गहादेराकृतिगण- त्वाद् भवार्थे छप्रत्ययः । ततश्च "पूर्वत्रासिद्धम्" इत्यधिकारे यच्छास्त्रं तत्र "अद्वित्वे" इत्युपतिष्ठते" इत्यक्षरार्थः। "द्वित्वभिन्ने पूर्वत्र कर्तव्ये परमसिद्धम्" इति प्रदेशेषु तादृशाधिकारे चैकवाक्यतया लब्धोऽर्थः । अस्यां च परिभाषायाम् । षाष्ठं धातुद्वित्वमाश्रित्येकं पदद्वित्वं वर्णद्वित्वञ्च गृह्यते विनिगमनाविरहादिति स्पष्टं प्रदीपोद्द्यो- तयोः । अत एव " वाक् वाक्" इति भाष्योक्तं द्वित्वोदाहरणं संगच्छते । अन्यथा चर्वस्यासिद्धत्वाद् गकारस्य द्वित्वे परस्यावसानिकचवें ककारेऽपि पूर्वत्र गकारश्रवणापत्त्या तदसङ्गतिरेव । "खरि च" इत्यनेन तु न निर्वाहः । तद्दृष्ट्या " वावसाने" इत्यस्यासिद्धत्वात् । नच वर्णद्वित्वेऽप्यस्याः प्रवृत्त्यङ्गीकारे " द्वित्वे परसव- र्णस्य सिद्धत्वं वक्तव्यम् " इति वार्तिकवैफल्यमिति वाच्यम्, तादृशवार्तिकस्यापूर्वत्वकल्पनापेक्षया प्रकृतपारि- भाष्यांशविशेषानुवादरूपत्वे लाघवात् । " कृष्णर्द्धिः " इत्यादौ जश्त्वात्पूर्वमनन्तरं वा द्वित्वे रूपे विशेषाभा- वेन नास्याः प्रवृत्तिः, यत्र सिद्धत्वासिद्धत्वयोः फले विशेषस्तत्रैव प्रवृत्त्यङ्गीकारात् । अस्यां च परिभाषायाम्- "अणुदित्-" इति ग्राहकसूत्रस्थमणग्रहणं ज्ञापकम्, परणकारेण प्रत्याहाराश्रयणं हि " सँय्यन्ता " विद्धाँल्लि- खति" इत्यादावनुनासिकयवलानां यर्त्वेन द्वित्वार्थम् । प्रकृतपरिभाषाया अभावे द्वित्वात्पूर्वं परसवर्णस्य दौर्ब- ल्यात् तद्वैयर्थ्यमेवेति ज्ञापकत्वसम्भवः । यदि तु जातिपक्षावलम्बेन ग्राहकसूत्रस्थमणग्रहणं भगवता भाष्यका- रेण प्रत्याख्यात इति विभाव्यते तदा वाचनिक्यैवैषा परिभाषेति निष्कर्षः ॥ २ अनित्यत्वे प्रमाणमुपन्य- स्यति-उभौ साभ्यासस्येति । तद्धि "प्राणिणत्" इत्यादौ उभयोरपि नकारयोर्णत्वार्थं सूत्रकृता व्यरचि, प्रकृतपरिभाषावशाद् "अनितेः" इत्यस्य प्रवृत्त्युत्तरमेव द्वित्वे व्यर्थमेव तत्स्यादित्येतदनित्यत्वं ज्ञापयतीति भावः ॥ नच ज्ञापितेऽपि प्रकृतपरिभाषाया अनित्यत्वे व्यर्थं तत्रोभौग्रहणम्, आरम्भसामर्थ्या