वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 374, कुल 835 में से
संदर्भ में पढ़ें( ३२८ ) सिद्धान्तकौमुद्याम्- दीप्तौ । चकास्ति । झस्य अत् । चकासति । चकासांचकार । धि चेति सलोपः । सिञ्च एवेत्येके । चकाद्धि ॥ चकाधीत्येव भाष्यम् ॥ तिप्यनस्तेः ।८।२।७३ ॥ पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः । अचकात् । अचकाद् । अचकासुः ॥ सिपि धातोरुर्वा ।८।२।७४ ॥ पदान्तस्य धातोः सस्य रुः स्याद्वा । पक्षे दः । अचकाः । अचकात् ॥ ३ ॥ शासु अनुशिष्टौ । शास्ति ॥ शास इदङ्हलोः ।६।४।३४ ॥ शास उपधाया इत्स्या- दङि हलादौ क्ङिति च । शासिवसीति षः । शिष्टः । शासति । शशासतुः । शास्तु । शिष्टात् । शिष्टाम् । शासतु ॥ शाँ हौ ।६।४।३५ ॥ शास्तेः शादेशः स्याद्धौ परे । तस्याभीयत्वेनासिद्धत्वाद्वैधिः । शाधि । अशात् । अशिष्टाम् । अशासुः