वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 390, कुल 835 में से
संदर्भ में पढ़ेंरिफ कत्थनयुद्धनिन्दाहिंसादानेषु । रिफति । रिरिफ ॥ रिहेत्येके । ' शिशुं न विप्रा मतिभी रिहन्ति' ॥ १६ ॥ तृप तृम्फ तृप्तौ ॥ आद्यः प्रथमान्तः । द्वितीयो द्वितीयान्तः । द्वावपि द्वितीयान्तावित्यन्ये । तृपति । ततर्प । तर्पिता ॥ 'स्पृशमृशेति सिज्विकल्पः पौपादिकस्यैव । अङपवादत्वात् । तेनात्र नित्यं सिच् । अतर्पीत् । तृम्फति । शस्य ङित्त्वादनदितामिति न- लोपे ॥ शे तृम्फादीनां नुम्वाच्यः * ॥ आदिशब्दः प्रकारे । तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः । तृम्फति । ततृम्फ । तृफ्यात् ॥ १७ ॥ तुप तुम्प तुफ तुम्फ हिंसायाम् । तुपति । तुम्पति । तुफति । तुम्फति ॥ २१ ॥ दृप दृम्फ उत्क्लेशे । प्रथमः प्रथमान्तः । द्वितीयो द्वितीयान्तः । प्रथमो द्वितीयान्त इत्येके । दृपति । दृम्फति ॥ २३ ॥ ऋफ ऋम्फ हिंसायाम् । ऋफति । आनर्फ । ऋम्फति । ऋम्फांचकार ॥ २५ ॥ गुफ गुम्फ ग्रन्थे । गुफति । जुगोफ । गुम्फति । जुगुम्फ ॥ २७ ॥ उभ उम्भ पूरणे । उभति । उवोभ । उम्भति । उम्भांचकार ॥ २९ ॥ शुभ शुम्भ शोभार्थे । शुभति । शुम्भति ॥ ३१ ॥ दृभी ग्रन्थे । दृभति ॥ ३२ ॥ चृती हिंसाग्रन्थनयोः । चर्तिता । सेसिचीति वेट् ॥ चर्तिष्यति । चर्त्स्यति । अचर्तीत् ॥ ३३ ॥ विध विधाने । विधति । वेधिता ॥ ३४ ॥ जुड गतौ । जुडति ॥ तवर्गपञ्चमान्त इत्येके । 'मरुतो जुनन्ति' ॥ ३५ ॥ मृड सुखने । मृडति । मर्डिता ॥ ३६ ॥ पृड च । पृडति ॥ ३७ ॥ पृण प्रीणने । पृणति । पपर्ण ॥ ॥ ३८ ॥ वृण च । वृणति ॥ ३९ ॥ मॄण हिंसायाम् ॥ ४० ॥ तुण कौटिल्ये । तु- तोण ॥ ४१ ॥ पुण कर्मणि शुभे । पुणति ॥ ४२ ॥ मुण प्रतिज्ञाने ॥ ४३ ॥ कुण शब्दोपकरणयोः ॥ ४४ ॥ शुन गतौ ॥ ४५ ॥ हूण हिंसागतिकौटिल्येषु ॥ ४६ ॥ घुण घूर्ण भ्रमणे ॥ ४८ ॥ षुर ऐश्वर्यदीप्त्योः । सुरति । सुषोर । आशिषि-सूर्यात् ॥ ४९ ॥ कुर शब्दे । कुरति । कुर्यात् । अत्र 'न मकुर्छुराम्' इति निषेधो न । कँरोतेरेव तत्र ग्रहणा-
१ रिह्धातोः सद्भावे वेदवाक्यं प्रमाणयति-शिशुं न विप्रा इति । अत्र "न" इत्युपमार्थीयः । "नेति प्रतिषेधार्थीयो भाषायाम् ।" भाषायां लोके । यथा घटो नास्ति पटो नास्ति" इत्यत्र नश- ब्दोऽस्तित्वं प्रतिषेधति ॥ "उभयमन्वध्यायम्" । अन्वध्यायम्=छन्दसि वेदे, उभयम्=प्रतिषेधार्थीय उपमार्थीयश्च इत्यर्थः । "प्रतिषेधार्थीयः पुरस्तादुपचारस्तस्य यत्प्रतिषेधति ।" यो हि प्रतिषेधार्थीयो भवति, तस्य पुरस्तात्=प्रथमम्, उपचारः=प्रयोगो भवति । कस्मात् यत्प्रतिषेधति तस्मादित्यर्थः यथा "नेन्द्रं देवममंसत" इति । निषेधार्थीयः प्रथमं पाठात् । "उपमार्थीय उपरिष्टादुपचारस्तस्य येनोपमिमीते ।" येन=अर्थेन, उपमेयमर्थमुपमिमीते स उपमार्थीयः । तस्य उपरिष्टात्=उपरि, उपचारः= पाठ इत्यर्थः यथा प्रकृते । इति यास्कोक्तेः ॥ विप्राः=मेधाविनो ब्राह्मणा (इमं सोमम्) इति शेषः ॥ शिशुं न=शिशुमिव बालमिव, मतिभिः=मतिपूर्वाभिर्वाग्भिः, रिहन्ति=स्तुवन्ति । यथा बालं कश्चिल्लालयति तथा सोमं स्तोत्रशस्त्ररूपाभिर्वाग्भिः स्तुवन्तीति वेदवाक्यार्थः ॥ २ अङपवादत्वादिति । "उत्सर्गसमा- नदेशा अपवादाः" इति न्यायादिति भावः ॥ ३ आदिशब्दः प्रकारे इति । "आदिशब्दं तु मेधावी चतुर्ष्वर्थेषु भाषते । सामीप्ये च व्यवस्थायां प्रकारेऽवयवे तथा" इत्यभियुक्तोक्तेरिति भावः । "प्रकारो भेदसादृश्ये" इत्यमरोक्तेरत्र नकारवत्त्वेन सादृश्यं गृह्यते तदाह-तेनेति ॥ ४ करोतेरेवेति । ननु करोतेः "कुर" इति रूपस्य लाक्षणिकत्वात् प्रतिपदोक्तत्वेन "कुर शब्दे" इत्यस्यैव तत्र ग्रहणमुचितमिति चेन्न, "विदाङ्कुर्वन्वित्यन्यतरस्याम्" इति निर्देशात् करोतेरेव तत्र ग्रहणमित्याशयात् ॥