वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 393, कुल 835 में से
संदर्भ में पढ़ेंतिङन्ते तुदादिप्रकरणम् । ( ३४५ ) टुमस्जो शुद्धौ । मज्जति । ममज्ज । 'मस्जिनशोर्झलीति नुम् ॥ मस्जेरन्त्यात्पूर्वो नुम्वाच्यः ॥*॥ संयोगादिलोपः । ममङ्क्थ । ममज्जिथ । मङ्क्ता । मङ्क्ष्यति । अमाङ्क्षीत् । अमाङ्क्ताम् । अमाङ्क्षुः ॥ ३ ॥ रुजो भङ्गे । रोक्ता । रोक्ष्यति । अरौक्षीत् । अरौक्ताम् ॥ ४ ॥ भुजो कौटिल्ये । रुजिवत् ॥ ५ ॥ छुप स्पर्शे । छोप्ता । अच्छौप्सीत् ॥ ६ ॥ रुश रिश हिंसा- याम् । तालव्यान्तौ । रोष्टा । रोक्ष्यति । रेटा । रेक्ष्यति ॥ ८ ॥ लिश गतौ । अलिक्षत् ॥ ९ ॥ स्पृश संस्पर्शने । स्प्रष्टा । स्पर्ष्टा । स्प्रक्ष्यति । स्पर्शति । अस्प्राक्षीत् । अस्पा- क्षीत् । अस्पृक्षत् ॥ १० ॥ विच्छ गतौ । 'गुपूधूपेत्यायः । आर्धधातुके वा । विच्छायति । विच्छायांचकार । विविच्छ ॥ ११ ॥ विश प्रवेशने । विश