वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 401, कुल 835 में से
संदर्भ में पढ़ेंतिङन्ते चुरादिप्रकरणम् । ( ३६३ ) ल्वोरित्यभ्यासदीर्घः । अचूचुरत् । अचूचुरत ॥ १ ॥ चिति स्मृत्याम् ॥ चिन्तयति । अचिचिन्तत् । चिन्तेति पठितव्ये इदित्करणं णिचः पाक्षिकत्वे लिङ्गम् । तेन चिन्त्यात् चिन्त्यते इत्यादौ नलोपो न । चिन्तति । चिन्तेत् । एतच्च ज्ञापकं सामान्यापेक्षमित्येके । अत एकहलित्यत्र वृत्तिकृता जगाण जगणतुरित्युदाहृतवान् ॥ ४विशेषापेक्षमित्यपरे । अत एव 'आधृषाद्वे'त्यस्य न वैयर्थ्यम् ॥ २ ॥ यत्रि संकोचे । यन्त्रयति । यन्त्रेति पठितुं शक्यम् । यत्तु इदित्करणाद्यन्त्रतीति माधवेनोक्तं तच्चिन्त्यम् । एवं कुद्रित्रीमित्रिषु ॥ ३ ॥ स्फुडि परिहासे । स्फुण्डयति । इदित्करणात्-स्फुण्डति ॥ स्फुटिति पाठान्तरम् । स्फुण्टयति ॥ ४ ॥ लक्ष दर्शनाङ्कनयोः ॥ ५