वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 409, कुल 835 में से
संदर्भ में पढ़ेंिंचकार । अपतीतृ । द्वितीये । पातयति । अपीपतत् ॥ ११ ॥ पष अनुप्रसर्गात् । गता- येव । पषयति ॥ १२ ॥ स्वर आक्षेपे । स्वरयति ॥ १३ ॥ रच प्रतियत्ने ॥ रचयति १४ ॥ कल गतौ संख्याने च ॥ १५ ॥ चह परिकल्कने । परिकल्कनं दम्भः शाठ्यं ॥ १६ ॥ मह पूजायाम् ॥ महयति । महतीति शपि गतम् ॥ १७ ॥ सार कृप प्र दौर्बल्ये ॥ सारयति । कृपयति । श्रथयति ॥ २० ॥ स्पृह ईप्सायाम् ॥ २१ ॥ भाम धे ॥ अबभामत् ॥ २२ ॥ सूच पैशुन्ये ॥ सूचयति । अशोपदेशत्वान्न षः । असूचुचत् २३ ॥ खेट भक्षणे ॥ तृतीयान्त इत्येके ॥ खोट इत्यन्ये ॥ २६ ॥ छोट क्षये ॥ २७ ॥ म उपलेपने ॥ अजुगोमत् ॥ २८ ॥ कुमार क्रीडायाम् । अचुकुमारत् ॥ २९ ॥ शील धारणे । उपधारणमभ्यासः ॥ ३० ॥ साम सान्त्वप्रयोगे । अससामत् । साम सान्त्वने तीतस्य तु—असीषमत् ॥ ३१ ॥ वेल कालोपदेशे । वेलयति ॥ ३२ ॥ काल इति धातुरित्येके ।कालयति ।॥ ३३ ॥ पलपूल लवनपवनयोः ॥ ३४ ॥ वात सुखसेव- ने । गतिसेवनयोरित्येके । वातयति । अववातत् ॥ ३५ ॥ गवेष मार्गणे । अजगवे- षत् ॥ ३६ ॥ वास उपसेवायाम् ॥ ३७ ॥ निवास आच्छादने । अनिनिवासत् ॥ ३८ ॥ ज पृथक्कर्मणि ॥ ३९ ॥ समाज प्रीतदर्शनयोः । प्रीतिसेवनयोरित्यन्ये । समाजयति ४० ॥ ऊन परिहाणे ॥ ऊनयति । 'ओः पुयण्जीति सूत्रे' पययोरिति वक्तव्ये वर्गप्रत्या-
१ "पलपूल" इति, ओष्ठ्यद्वयवान् । पलूलनं शोधनद्रव्यम् । इति तैत्तिरीयसंहिताभाष्यम् । शोधन- म्—"सावण" इति प्रसिद्धम् । यकारघटितः पाठोऽसाधुः ॥ २ ननूक्तधातौर्णिचि चङि न शब्दस्येष्टं त्वं दुर्लभम्, द्वित्वात्पूर्वमेव-आर्धधातुकॉपदेशकाल एव लोपविधानेनाल्लोपस्य प्रथमत एव प्रवृत्त्याऽन्तरङ्गत्वॉ- त्प्रवृत्तेः । "द्विर्वचनेऽचि" इति निषेधस्तु नाशङ्क्यः णिचो द्वित्वनिमित्तत्वाभावादत आह-ओः पुण्जीति । "विभावयिषति" "अवीभवत्" इत्यादावन्तरङ्गत्वोद् वृद्धावावादेशे "सन्यतः" इतीत्त्वेनैव द्धौ सम्पूर्णसूत्रस्यैव ज्ञापकता युक्तेति भ्रान्तिमपाकर्तुमाह-पययोरिति । पूङो यौतेश्च सनि "स्मिपूङ्रञ्ज्वशां ने" सनीवन्तर्द्धभ्रस्जदम्भुश्रिभ्रूस्र्युणुं" इति सूत्राभ्यामिटि द्वित्वनिमित्तसत्त्वेन "द्विर्वचनेऽचि" इत्यस्य त्या द्वित्वात् पूर्वे गुणाभावे पूयुशब्दयोरेव द्वित्वेऽभ्यासे उकारसत्त्वेन "यियविषति" पिपविषते" इत्यत्रे- विधानार्थं "पययोः" इत्येव वाच्यं किं वर्गप्रत्याहाराश्रयणेन । न च "पिपविषते" इत्यादौ गुणावादे- ोः "अचः परस्मिन्-" इति स्थानिवत्त्वेनाऽवर्णपरकयकारादिपरत्वाभाव इति वाच्यम्, "पययोः" हुपादानसामर्थ्येनैव स्थानिवत्त्वाभावात् । एवं च वर्गादिग्रहणं व्यर्थीभूय 'णिचो द्वित्वनिमित्तत्वाभावेऽपि श्वे कर्तव्ये णिज्निमित्तकाजादेशस्य निषेधं ज्ञापयति । तथा च "द्वित्वे कर्तव्ये णिज्निमित्तकादेशो न िति" इति वचनव्यक्त्या निषेधस्य बलवत्त्वात्तद्विषयेऽन्तरङ्गस्यापि कार्यस्य पूर्वमप्रवृत्तिरिति भावः ॥ ज्ञाप्यां- वरूपमाह-णिचीति । णिज्निमित्तक इत्यर्थः । "णिचि परतः" इत्यर्थस्तु न युक्तः, "पुस्फारयिषति" यादौ रेफेण व्यवधानात् निषेधप्रवृत्त्यनुपपत्तेः । अत्र णिज्ग्रहणं णिसामान्योलक्षणम् । तेन आस्यशाब्दात् णिङङ्गान्निरसने" इति णिङ्प्रत्ययेऽपि निषेधप्रवृत्त्या "आसस्यत्" इत्यत्र प्रक्रियादशायामुत्तरखण्डेऽस्व- रत्वेन निषेधसिद्धिः । न च "णिचि" इत्यस्य सूत्रेऽभावेन कथं तल्लाभ इति वाच्यम्, नानेनापूर्वो निषेधो व्यते किं तु "द्वित्वनिमित्तेऽजादौ प्रत्यये परेऽजादेशो न" इत्यर्थकस्य "द्विर्वचनेऽचि" इति सूत्रस्य ऽन्यवधाने प्रवृत्तिरस्त्येव "येन नाव्यवधानम्" इति न्यायेन ज्ञाप्यते इति तल्लाभसम्भवात् । तेन "दिद्वव- यिषति" इत्यादौ नातिप्रसङ्गः, अनेकव्यवधानात् । एतन्मूलकमेव "अचः" इति स्वरूपकथनम् । एवं-