वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 422, कुल 835 में से
संदर्भ में पढ़ेंलोपः स्यादार्धधातुके ॥ 'आदेः परस्य' । 'अतो लोपः' ॥ सोसूचांचक्रे । सोसूचिता । सोसू- त्रिता । मोमूत्रिता ॥ दीर्घोऽकितः ॥ ७।४।८३ ॥ अकितोऽभ्यासस्य दीर्घः स्याद्यङि यङ्- लुकि च ॥ अटाट्यते ॥ यङि च ॥ ७।४।३० ॥ ऋतेः संयोगादेश्च ऋतो गुणः स्याद्यङि ॥ यकारपररेफस्य न द्वित्वनिषेधः । 'अरार्यते' इति भाष्योदाहरणात् । अरारिता । अशासिता । ऊर्णोनूयते ॥ बेभिद्यते । अलोपस्य स्थानिवत्त्वान्नोषधागुणः-बेभिदिता ॥ नित्यं कौटिल्ये गतौ ॥ ३।१।२३ ॥ गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे ॥ कुटिलं व्रजति वाव्रज्यते ॥ लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम् ॥ ३।१।२४ ॥ एभ्यो धात्वर्थगर्हायामेव यङ् स्यात् ॥ गर्हितं लुम्पति लोलुप्यते । सासह्यते ॥ चरफलोश्च ॥ ७।४ ।८७ ॥ अनयोरभ्यासस्यातो नुक् स्याद्यङ्यङ्लुकोः ॥ नुगित्यनेनानुस्वारो लक्ष्यते ॥ स च पदान्तवद्वाच्यः * ॥ वा पदान्तस्येति यथा स्यात् ॥ उत्परस्याऽतः ॥ ७।४।८८ ॥ चर फलोरभ्यासात्परस्यात उत्स्याद्यङ्यङ्लुकोः ॥ 'हलि चेति दीर्घः । चञ्चूर्यते । चंचूर्यते। पम्फुल्यते पंफुल्यते ॥ जपजभदहदशभञ्जपशां च ॥ ७।४।८६ ॥ एषामभ्यासस्य नुक् स्याद्यङ्यङ्- लुकोः ॥ गर्हितं जपति जञ्जप्यते इत्यादि ॥ ग्रो यङि ॥ ८।२।२० ॥ गिरते रेफस्य लत्वं स्याद्यङि ॥ गर्हितं गिलति जेगिल्यते ॥ 'घुमास्थेतीत्त्वम् । गुणः । देदीयते । पेपीयते । सेषी- यते ॥ 'विभाषा श्वेः' । शोशूयते । शेश्वीयते ॥ 'यङि च' सास्मर्यते ॥ रीङृतः । चेक्री- यते । सुट् । संचेस्क्रीयते ॥ सिचो यङि ॥ ८।३।११२ ॥ सिचः सस्य षो न स्याद्यङि ॥ निसेषिच्यते ॥ न कवतेर्यङि ॥ ७।४।६३ ॥ कवतेरभ्यासस्य चुत्वं न स्याद्यङि । कोकू- यते । कौतिकुवत्योस्तु चोकूयते ॥ नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् । ७ ।४।८४ ॥ एषामभ्यासस्य नीगागमः स्याद्यङ्यङ्लुकोः ॥ 'अंकित इत्युक्तेन दीर्घः । नलोपः । वनीवच्यते । सनीस्रस्यते इत्यादि ॥ नुगतोऽनुनासिकान्तस्य ॥ ७।४।८५ ॥ अनुना- सिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्यात् ॥ नुकानुस्वारो लक्ष्यत इत्युक्तम् । यँय्य- १ “न न्द्राः-” इति निषेधमाशङ्कयाऽऽह-यकारपरेति । यकारः परो यस्मादसौ यकारपरः, ततः स चासौ रेफश्चेति कर्मधारयः ॥ २ तत्रोपपत्तिमाह-अरार्यते इति । उक्तोदाहरणस्य र्यशब्दद्वित्वमन्तर सिद्धिसम्भवो न । “नचोदाहरणमादरणीयम्” इति भाष्योक्तिस्तु “सुद्ध्युपास्यः” इति प्रयोगादेव यण् सेत्स्यति इति यण्विधायकसूत्रवैयर्थ्यमेवेत्यादिकुकल्पनाप्रसङ्गावसरे संघटते इति न विरोधसंभावना ॥ ३ संचेस्क्रीयते इति । न च “संकृ” इति दशायां द्वित्वनिमित्तयङः पूर्वमन्तरङ्गत्वात्सुटि कृते ततो यङि द्वित्वात् परत्वाद् “यङि च” इति गुणः स्यादिति वाच्यम्, “यङि च” इत्यत्र “असुट इति वक्तव्यम्” इत्यङ्गीकरणदोषात् ॥ ४ “कवतेः” इति शपा निर्देशस्य फलमाह-कौतीत्यादि ॥ ५ अकित इत्युक्तेरिति । ननु “अजन्ताभ्यासस्य दीर्घः” इति सूत्रार्थेन नुगृगादौ कृते न सूत्रप्राप्तिरजन्तत्वविर- हात्, नीकि च विशेषाभावः, रिकि विधानसामर्थ्यादेव दीर्घाभावः सिद्ध इति किम्-“अकितः” इत्यनेनेति चेन्न, अभ्यासविकारविधौ वैयधिकरण्यान्वयबोधनाय तस्यावश्यकत्वात् । तेन “चिच्छासति” इति सिद्धम् । नचैवमपि अपवादत्वान्नीगादिभिर्दीर्घबाधे सिद्धे “अकितः” इति व्यर्थमेवेति वाच्यम्, “अभ्यासविकारेषु बाध्यबाधकभावो नास्ति” इति परिभाषाज्ञापकार्थत्वात् ॥