वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 489, कुल 835 में से
संदर्भ में पढ़ेंवेडुकत्वात्सिद्धे कृन्तत्यादीनामीदित्त्वेनानित्यत्वज्ञापनाद्वा । तेन धावितमिभराजधियेत्यादि । ‘यस्य विभाषेत्यत्रैकाच इत्येव । दरिद्रितैः ॥ क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्ट- बाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु ।७।२।१८ ॥ क्षुब्धादीन्य- ष्टावनिष्ठानि निपात्यन्ते समुदायेन मन्थादिषु वाच्येषु ॥ द्रवद्रव्यसंपृक्ताः सक्तवो मन्थो मन्थनदण्डश्च । क्षुब्धो मन्थश्चेत् । स्वान्तं मनः । ध्वान्तं तमः । लग्नं सक्तम् । निष्ठा- नत्वमपि निपातनात् । म्लिष्टमविस्पष्टम् । विरिब्धः स्वरः । म्लेच्छ रेभ् अनयोरुपधाया इत्वमपि निपात्यते । फाण्टम् । अनायाससाध्यः कषायविशेषः । माधवस्तु नवनीतमात्राप्रा- ग्वस्थापन्नं द्रव्यं फाण्टमिति वेदभाष्ये आह । बाढं भृशम् । अन्यत्र तु क्षुभितम् । क्षुब्धो राजेति त्वागमशास्त्रस्यानित्यत्वात् । स्वनितम् । ध्वनितम् । लगितम् । म्लेच्छितम् । विरे- भितम् । फणितम् । वाहितम् ॥ धृषिशसी वैयात्ये ।७।२।१९ ॥ एतौ निष्ठायामवि- नये एवानिटौ स्तः ॥ धृष्टः । विशस्तः । अन्यत्र धर्षितः । विशसितः । भावादिकर्मणोस्तु वैयात्ये धृषिर्नास्ति । अत एव नियमार्थमिदं सूत्रमिति वृत्तिः । धृषेरादित्त्वे फलं चिन्त्यमिति हरदत्तः । माधवस्तु भावादिकर्मणोर्वैयात्ये विकल्पमाह । धृष्टम् । धर्षितम् । प्रधृष्टः । प्रध- र्षितः ॥ दृढः स्थूलबलयोः ।७।२।२० ॥ स्थूले बलवति च निपात्यते ॥ दृह दृहि वृद्धौ । क्तस्येडभावः । तस्य ढत्वम् । हस्य लोपः । इदितो नलोपश्च । दृहितो दंहितोऽन्यः ॥ प्रभौ परिवृढः ।७।२।२१ ॥ वृह वृहि वृद्धौ । निपातनं प्राग्वत् ॥ परिवृहितः । परिवृंहि- तोऽन्यः ॥ कृच्छ्रगहनयोः कषः ।७।२।२२ ॥ कषो निष्ठाया इट् स्यादेतयोरर्थयोः ॥ कष्टं दुःखं तत्कारणं च । स्यात्कष्टं कृच्छ्रमाभीलम् । कष्टो मोहः । कष्टं शास्त्रम् । दुरवगा- हमित्यर्थः । कषितमन्यत् ॥ घुषिरविशब्दने ।७।२।२३ ॥ घुषिर्निष्ठायामनिद् स्यात् ॥ घुष्टा रज्जुः । अविशब्दने किम् ? घुषितं वाक्यम् । शब्देन प्रकटीकृताभिप्रायमित्यर्थः ॥ १ दरिद्रित इति । “तनिपति-” इति सनो वेट्कत्वात् प्राप्तिः ॥ २ अनायाससाध्य इति । क्षुण्णमौषधमुष्णोदके प्रक्षिप्तं चेत् तस्मिन्नेव काले यज्जायते तत् फाण्टमिति ॥ ३ धृषिशसी इति । वैयात्यम् = अविनीतता । विरुद्धं यथा स्यात् तथा यातो वियातस्तस्य भावो वैयात्यमिति व्युत्पत्तेः । शसु हिंसायामित्यस्योदित्त्वेन क्त्वायां वेट्कत्वाद् “यस्य विभाषा” इतीडभावे सिद्धे धृष्ट्वा “प्रागल्भ्ये” इत्यस्य चाऽऽदित्त्वेन “आदितश्च” इतीडभावे सिद्धे नियमार्थोऽयं योग इत्य