भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 497, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 497

।३।२।१६३॥ इत्वरः । इत्वरी । नश्वरः । जित्वरः । सुत्वरः ॥ गत्वरश्च ।३।२ । १६४ ॥ गमेरनुनासिकलोपोऽपि निपात्यते ॥ गत्वरी ॥ जागरूकः । ३ । २ । १६५ ॥ जागर्तैरूकः स्यात् ॥ जागरूकः ॥ यजजपदशां यङः ।३।२।१६६॥ एभ्यो यङन्तेभ्य ऊकः स्यात् ॥ दशामिति भाविना नलोपेन निर्देशः । यायजूकः । जञ्जपूकः । दन्दशूकः ॥ नमिकम्पि- स्म्यजसकमहिंसदीपो रः । ३ । २ । १६७ ॥ नम्रः । कम्प्रः । स्मेरः । जसिरनुपसर्गः क्रियासातत्ये वर्तते । अजस्रम् । सन्ततमित्यर्थः । कम्रः । हिंस्रः । दीप्रः ॥ सनाशंस- भिक्ष उः ।३।२।१६८॥ चिकीर्षुः । आशंसुः । भिक्षुः ॥ विन्दुरिच्छुः । ३ ।२।१६९॥ वेत्तेर्नुम् इषेश्चत्वं च निपात्य