वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 502, कुल 835 में से
संदर्भ में पढ़ेंअजिरमङ्गणम् । शशेरुपधाया इत्वम् । शिशिरं स्यादृतोर्भेदे तुषारे शीतलेऽन्यवत् । श्रथ मोचने उपधाया इत्वं रेफलोपः । प्रत्ययरेफस्य लत्वम् । शिथिलम् । स्थास्फाय्योष्टिल्लोपः । स्थिरं निश्चलम् । स्फिरं प्रभूतम् । तिष्ठतेर्बुक् ह्रस्वत्वं च । स्थविरः । खदिरः । बाहुलकात् शीडो बुक् ह्रस्वत्वं च । शिविरम् ॥ सलिकल्यनिमहिभंडिभाण्डिशण्डिपिण्ड- तुण्डिकुकिभूभ्य इलच् ॥ सलति गच्छति निम्नमिति सलिलम् । कलिलम् । अनिलः । महिला । पृषोदरादित्वान्महेलापि । भड इति सौत्रो धातुः । भडिलौ शूरसेवकौ । भण्डिलो दूतः कल्याणं च । शण्डिलो मुनिः । पिण्डिलो गणकः । तुण्डिलो मुखरः । कोकिलः । भविलो भव्यः । बाहुलकात्कुटिलः ॥ कमेः पश्च ॥ कपिलः ॥ गुपादिभ्यः कित् ॥ गुपिलो राजा । तिजिलो निशाकरः । गुहिलं वनम् ॥ मिथिलादयश्च ॥ मध्यन्तेऽत्र रिपवो मिथिला नगरी । पथिलः-पथिकः ॥ पतिकठिकुठिगडिगुडिदंडिशिभ्य एरक् ॥ पतेरः पक्षी गन्ता च । कठेरः कृच्छ्रजीवी । कुठेरः पर्णाशः । बाहुलकान्नुम् । गडेरो मेषः । गुडेरो गुडकः । दशेरो हिंस्रः ॥ कुम्बेर्नलोपश्च ॥ कुबेरः ॥ शदेस्त च ॥ शतेरः शत्रुः ॥ मूलेरादयः ॥ एरगन्ता निपात्यन्ते ॥ मूलेरो जटा । गुधेरो गोप्ता । गुहेरो लोहघातकः । मुहेरो मूर्खः ॥ कबेरोतच् पश्च ॥ कपोतः पक्षी ॥ भातेर्डवतुः ॥ भातीति भवान् ॥ कठिचकिभ्यामोरन् ॥ कठोरः । चकोरः ॥ किशोरादयश्च ॥ किम्पूर्वस्य शृणातेष्टिलोपः किमोऽन्त्यलोपश्च ॥ किशोरोऽश्वशावः । सहोरः साधुः ॥ कपिगडिगण्डिकटिपटिभ्य ओलच् ॥ कपीति निर्देशान्नलोपः ॥ कपोलः । गडोलगण्डोलौ गुडकपर्यायौ । कटोलः कटुः । पटोलः ॥ मीनातेरूरन् ॥ मयूरः ॥ स्यन्देः संप्रसारणं च ॥ सिन्दूरम् ॥ सितनिगमिमसिसच्यविधाञ्क्रूशिभ्यस्तुन् ॥ सिनोतीति सेतुः । तितुत्रेति नेट् । तन्तुः । गन्तुः । मस्तु दधिमण्डम् । सच्यत इति सक्तुः । अर्धर्चादिः । 'ज्वरत्वरेत्यूठ् । तत्र क्षितीत्यनु- वर्तत इति मते तु बाहुलकात् । ओतुर्बिडालः । धातुः । क्रोष्टा ॥ पः किच्च ॥ पिबतीति पितुर्वह्नौ दिवाकरे ॥ अर्तेश्च तुः ॥ अर्तेस्तुः स्यात्स च कित् ॥ ऋतुः स्त्रीपुष्पकालयोः ॥ कमिमनिजनिगाभायाहिभ्यश्च ॥ एभ्यस्तुः स्यात् ॥ कन्तुः कन्दर्पचित्तयोः । मन्तुरपराधः । जन्तुः प्राणी । गातुः पुंस्कोकिले भृङ्गे गन्धर्वे गायनेऽपि च । भातुरादित्यः । यातुरध्वगका- लयोः । रक्षसि क्लीबे । हेतुः कारणम् ॥ चायः किः ॥ केतुर्ग्रहपताकयोः ॥ आमोतेर्ह्र- स्वश्च ॥ अस्तुः शरीरम् ॥ वसेस्तुन् ॥ वस्तु ॥ अगारे णिच्च ॥ वेश्मभूर्वास्तुरस्त्रियाम् ॥ कृञः कतुः ॥ क्रतुर्यज्ञः ॥ एधिवह्वोश्च तुः ॥ एधतुः पुरुषः । वहतुरनड्डान् ॥ जीवेरातुः ॥ जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे ॥ आतृकन् वृद्धिश्च ॥ जीवेरित्येव ॥ जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृषीवले ॥ कृषिचमितनिधनिर्सर्जिखर्जिभ्य ऊः ॥ कर्षूः पुंसि करीषाग्नौ कर्षूर्नद्यां स्त्रियां मता । चमूः । तनूः । धनूः शस्त्रम् । सर्ज सर्जने । सर्जूर्वणिक् । खर्ज व्यथने । खर्जूः पामा ॥ मृजेर्गुणश्च ॥ मर्जूः शुद्धिकृत् ॥ वहो