वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 505, कुल 835 में से
संदर्भ में पढ़ेंच ॥ पृथिवी । पवन्नित्येके । पृथवी पृथिवी पृथ्वी इति शब्दार्णवः ॥ अश्रुप्रुषिलटिक- निकटिविशिभ्यः कन् ॥ अश्वः । प्रुष स्नेहादौ । प्रुष्वः स्याद्धेतुसूर्ययोः । प्रुष्वो जलकणिका । लट्वा पक्षिभेदः फलं च । कण्वं पापम् । बाहुलकादित्वे क्विब्वमपि । खट्वा । विश्वम् ॥ इण्शीभ्यां वन् ॥ एवो गन्ता । ये व एवा मरुतः । अन्तत्त्वे निपातोऽयम् । शेवं मित्राय वरुणाय ॥ सर्वनिघृष्वरिष्वलष्वशिवपद्महेष्व्वा अतन्त्रे ॥ अक- र्त्तर्यर्थे निपात्यन्ते ॥ सृतमनेन विश्वमिति सर्वम् । निपूर्वाद्विषेर्गुणाभावोऽपि । निघृष्यतेऽनेन निघृष्वः खुरः । रिष्वो हिंस्रः । लष्वो नर्तकः । लिष्व इत्यन्ये । तत्रोपधाया इत्वमपि । शेते- ऽस्मिन् सर्वमिति शिवः शम्भुः । शीङो ह्रस्वत्वम् । पद्वो रथो भूलोकश्च । प्रह्वयते इति प्रह्वः । ह्वञ आकारवकारलोपः । जहातेरालोपो वा । ईष्वेर्वन् । ईष्व आचार्यः । इष्व इत्यन्ये । अतन्त्रे किम् ? सर्ता । सारकः । बाहुलकाद् हसतेः ह्रस्वः ॥ शेवयद्वजिह्वाग्रीवाप्वा- मीवाः ॥ शेवं इत्यन्तोदात्तार्थम् । यान्त्यनेन यह्वः ॥ ह्रस्वो हुगागमश्च । लिहन्त्यनया जिह्वा । लकारस्य जः गुणाभावश्च । गिरन्त्यनया ग्रीवा । ईडागमश्च । आप्नोतीत्याप्वा वायुः । मीवा उदरकृमिः । वायुरित्यन्ये ॥ कृगृशृदृभ्यो वः ॥ कर्वः काम आखुश्च । गर्वः । शर्वः । दर्वा राक्षसः ॥ कनिन् युवृषितक्षिराजधन्वद्युप्रतिदिवः ॥ यौतीति युवा । वृषा इन्द्रः । तक्षा । राजा । धन्वा मरुः । धन्व शरासनम् । द्युवा सूर्यः । प्रतिदीव्यन्त्यस्मिन् प्रतिदिवा दिवसः ॥ सप्त्यष्टभ्यां तुट् च ॥ सप्त । अष्ट ॥ नञि जहातेः ॥ अहः ॥ श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिजन्मातरिश्वन्मघवन्निति ॥ एते त्रयोदश कनिन्प्रत्ययान्ता निपात्यन्ते ॥ श्वयतीति श्वा । उक्षा । पूषा । प्लिह गतौ । इकारस्य दीर्घत्वम् । प्लीहते इति प्लीहा कुक्षिव्याधिः ॥ क्लिदू आर्दीभावे । क्लिद्यति क्लेदा चन्द्रः । स्निह्यतेर्गुणः-स्निह्यतीति स्नेहा सुहृच्चन्द्रश्च । मुह्यन्त्यस्मिन्नाहते मूर्धा मुहे- रुपधाया दीर्घो धोऽन्तादेशो रमागमश्च । मज्यत्यस्थिषु मज्जा अस्थिसारः । अर्यपूर्वो माङ्-अर्यमा । विश्वं प्साति विश्वप्सा अग्निः । परिजायते परिज्मा चन्द्रोऽभ्रिश्च, जनेरुप- धालोपो मश्चान्तादेशः । मातरि अन्तरिक्षे श्वयतीति मातरिश्वा धातोरीकारलोपः । मह पूजायाम्-हस्य घो बुगागमश्च मघवा इन्द्रः ॥ ॥ इत्युणादिषु प्रथमः पादः ॥ अथोणादिषु द्वितीयः पादः । कृह्व्यामेणुः ॥ करेणुः । हरेणुर्गन्धद्रव्यम् ॥ हनिकुषिनीरविकारिभ्यः क्वथन् ॥ हथो विषण्णः । कुष्ठः । नीथो नेता । रथः । काष्ठम् ॥ अवे भृञः ॥ अवभृथः ॥ उषिकुषिगातिर्भ्यस्थन् ॥ ओष्ठः । कोष्ठम् । गाथा । अर्थः । बाहुलकात् शोथः ॥ सर्ते- १ "इण्शीभ्याम्" इत्येव सिद्धे "शेव" इति व्यर्थमत आह-अन्तोदात्तेति ॥ इति प्रथमपादः ॥