भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 534, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 534

पर्यङ्कः । इह 'तरप्तमौ घ' इति कृत्रिमस्य न ग्रहणं व्याख्यानात् ॥ उपघ्न आ- श्रये ।३।३।८५ ॥ उपपूर्वाद्धन्तेरप् स्यादुपधालोपश्च ॥ आश्रयशब्देन सामीप्यं लक्ष्यते । पर्वतेनोपहन्यते सामीप्येन गम्यते इति पर्वतोपघ्नः ॥ सङ्घोद्धौ गणप्रशंसयोः ।३।३।८६ ॥ संहननं सङ्घः । भावेऽप् । उद्धन्यते उत्कृष्टो ज्ञायत इत्युद्धः । कर्मण्यप् । गत्यर्थानां बुद्धयर्थत्वाद्धन्तिर्ज्ञाने ॥ निघो निमितम् । ३ । ३ । ८७ ॥ समन्तान्मितं निमितम् । निर्वि- शेषं हन्यन्ते ज्ञायन्ते इति निघा वृक्षाः । समारोहपरिणाहा इत्यर्थः ॥ द्वितः क्रिः ।३।३।८८॥ अयं भाव एव स्वभावात् । क्रेर्मन्नित्यम् । नित्यग्रहणात् क्रिर्मन्विषयः । अत एव क्र्यन्तेन न विग्रहः । डुपचष्-पाकेन निर्वृत्तं पक्त्रिमम् । डुवप्-उप्त्रिमम् ॥ द्वितोऽथुच् । ।३।३।८९ ॥ अयमपि स्वभावाद् भाव एव ॥ टुवेपृ-वेपथुः । श्वयथुः ॥ यजयाचयत- विच्छप्रच्छरक्षो नङ् ।३।३।९० ॥ यज्ञः । याच्या । यत्नः । विश्नः । प्रश्नः । 'प्रश्ने' चास- न्नेति निपातनान्न संप्रसारणम् । डित्त्वं तु विश्न इत्यत्र गुणनषेधाय । रक्ष्णः ॥ स्वपो नन् । ३ । ३ । ९१ ॥ स्वप्नः ॥ उपसर्गे घोः किः ।३।३।९२॥ प्रधिः । अन्तर्धिः । उपाधीय- तेऽनेनेत्युपाधिः ॥ कर्मण्यधिकरणे च ।३।३।९३ ॥ कर्मण्युपपदे घोः किः स्यादधिक- रणेऽर्थे ॥ जलानि धीयन्तेऽस्मिन्निति जलधिः ॥ स्त्रियां क्तिन् ।३।३।९४ ॥ स्त्रीलिङ्गे र्भावादौ क्तिन् स्यात् ॥ घञोऽपवादः । अजपौ तु परत्वाद्बाधते । कृतिः । चितिः । स्तुतिः ॥ स्फायी-स्फीतिः । स्फीतिकाम इति तु प्रामादिकम् । कान्ताद्भावार्थे णिचि अच इरीति वा समाधेयम् ॥ श्रुँयजीषिस्तुभ्यः करणे * ॥ श्रूयतेऽनया श्रुतिः । यजेरिषेच्च इष्टिः । स्तुतिः । ऋल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः * ॥ तेन नत्वम् । कीर्णिः । गीर्णिः । १ व्याख्यानादिति । "उभयगतिरिह भवति" इति परिभाषाश्रयणरूपात् ॥ २ समारोह- परिणाहा इति । आरोह उच्छ्रायः । परिणाहो विस्तारः ॥ ३ प्रश्न इत्यत्र "ग्रहिज्या-" इति संप्रसारणं कस्मान्नेति शङ्कानिरासायाऽऽह-प्रश्ने चासन्नेतीति । ननु निपातनेन संप्रसारणा- भावसाधने डित्त्वं व्यर्थमित्याक्षेपं परिहरन्नाह-डित्त्वं त्विति । अन्यथान्तरङ्गतत्वात्तुकि "च्छ्वोः शूडनु- नासिके च" इति । सतुक्कस्य छस्यादेशे कृते लघूपधत्वाद् गुणः स्यादिति भावः । ४ उपसर्गे घोः किरिति । उपसर्गे उपपदे घुसंज्ञकेभ्यो धातुभ्यः किप्रत्ययः स्यात् । यद्यपि भावेऽकर्त्तरि कारके इति प्रकृतन्तथापि बाहुलकादयं कर्त्तर्यपि, अत एव "उप समीपे स्वधर्ममादधाति" इति व्युत्पत्तिरपि क्वचिद्दर्शिता, परं तु सा करण एवोचितेत्याशयेनाह-उपाधीयतेऽनेनेति । ल्युट् तु बाहुलकान्न ॥ ५ कर्मण्यधिकरणे चेति । अत्र "कर्मणि" इति "अधिकरणे" इति च द्वयमप्युपपदं न, पृथक्पृथक् सप्तमीनिर्देशात् । नापि "अधिकरणे उपपदे कर्मणि प्रत्ययः" इत्यर्थः प्रकृतसूत्रे "अकर्त्तरि च कारके" इत्येतत्संबन्धेन कर्मणि प्रत्ययस्य सिद्धत्वात् । तस्मात् कर्मोपपदम् । अधिकरणमर्थ इति व्याचष्टे-कर्मण्युप- पद इति । अधिकरणग्रहणं भावकरणादिनिरासार्थम् ॥ ६ भावादाविति । आदिना कारकपरिग्रहः ॥ अजपौ त्विति । "अजबूभ्यां स्त्रीखलना"-इति वार्तिकोक्तेरिति भावः ॥ ७ श्रुयजीति । ल्युटि प्राप्ते वचनम् । श्रुतिः श्रोत्रम् । इज्यतेऽनया देवता इष्टिर्यागः । इषधातुप्रकृतिकस्तु ऋष्युक्तौ रूढः । स्तुतिशब्द- विशेषे तथा इति भैरवः ॥ ८ ऋल्वादिभ्य इति । ऋकारान्तेभ्यो ल्वादिभ्यश्च परः क्तिन् निष्ठा कार्यं लभते । "रदाभ्यां निष्ठातो नः" "ल्वादिभ्य" इति च विधीयमानं नत्वं क्तिनोऽपि भवतीत्यर्थः ॥