वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 544, कुल 835 में से
संदर्भ में पढ़ेंकथङ्कारम् । इत्थंकारं भुङ्क्ते । इत्थं भुङ्क्ते इत्यर्थः ॥ सिद्धेति किम् ? शिरोऽन्यथा कृत्वा भुङ्क्ते ॥ यथातथयोरसूयाप्रतिवचने । ३ । ४ । २८ ॥ कृञ् सिद्धाप्रयोग इत्येव । असू- यया प्रतिवचने ॥ यथाकारमहं भोक्ष्ये तथाकारं भोक्ष्ये किं तवानेन ॥ कर्मणि दृशि- विदोः साकल्ये । ३।४।२९ ॥ कर्मण्युपपदे णमुल् स्यात् ॥ कन्यादर्शं वरयति । सर्वाः कन्या इत्यर्थः । ब्राह्मणवेदं भोजयति । यं यं ब्राह्मणं जानाति लभते विचारयति वा तं सर्वं भोजयतीत्यर्थः ॥ यावति विन्दजीवोः । ३ । ४ । ३० ॥ यावद्वेदं भुङ्क्ते यावलभते ताव- दित्यर्थः । यावज्जीवमधीते ॥ चर्मोदरयोः पूरेः । ३ । ४ । ३१ । कर्मणीत्येव ॥ चर्मपूरं स्तृणाति । उदरपूरं भुङ्क्ते ॥ वर्षप्रमाण ऊलोपश्चास्यान्तरस्याम् । ३ । ४ । ३२ ॥ कर्मण्युपपदे पूरेर्णमुल् स्यादुकारलोपश्च वा समुदायेन वर्षप्रमाणे गम्ये ॥ गोष्पदप्रं वृष्टो देवः । गोष्पदपूरं वृष्टो देवः । अस्येति किम् ? उपपदस्य मा भूत् । मूषिकाबिलप्रम् ॥ चेले क्नोपेः । ३।४।३३ ॥ चेलार्थेषु कर्मसूपपदेषु क्नोपेर्णमुल् स्याद्वर्षप्रमाणे ॥ चेलक्नोपं वृष्टो देवः । वस्त्रक्नोपम् । वसनक्नोपम् ॥ निर्मूलसमूलयोः कषः । ३ । ४ । ३४ ॥ कर्मणी- त्येव ॥ कषादिष्वनुप्रयोगं वक्ष्यति । अत्र प्रकरणे पूर्वकाल इति न संबध्यते । निर्मूलकाषं कषति । समूलकाषं कषति । निर्मूलं समूलं कषतीत्यर्थः । एकस्यापि धात्वर्थस्य निर्मूलादि- विशेषणसंबन्धाद्भेदः । तेन सामान्यविशेषभावेन विशेषणविशेष्यभावः ॥ शुष्कचूर्णरूक्षेषु पिषः । ३।४।३५ ॥ एषु कर्मसूपपदेषु पिषेर्णमुल् ॥ शुष्कपेषं पिनष्टि । शुष्कं पिनष्टीत्यर्थः । चूर्णपेषम् । रूक्षपेषम् ॥ समूलाकृतजीवेषु हन्कृञ्ग्रहः । ३ । ४ । ३६ ॥ कर्मणी- त्येव ॥ समूलघातं हन्ति । अकृतकारं करोति । जीवग्राहं गृह्णाति । जीवतीति जीवः । इगुपधलक्षणः कः । जीवन्तं गृह्णातीत्यर्थः ॥ करणे हनः । ३ । ४ । ३७ ॥ पादघातं हन्ति । पादेन हन्तीत्यर्थः । यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थोऽयं योगः । भिन्नधातु- संबन्धे तु हिंसार्थानां चेति वक्ष्यते ॥ स्नेहने पिषः । ३ । ४ । ३८ ॥ स्निह्यते येन तस्मिन् करणे पिषेर्णमुल् ॥ उदपेषं पिनष्टि । उदकेन पिनष्टीत्यर्थः ॥ हस्ते वर्तिग्रहोः । ३।४।३९ ॥ हस्तार्थे करणे ॥ हस्तवर्तं वर्तयति । करवर्तम् । हस्तेन गुलिकां करोतीत्यर्थः । हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ॥ स्वे पुषः । ३ । ४ । ४० ॥ करण इत्येव ॥ स्व इत्यर्थग्रहणम् । तेन स्वरूपे पर्याये विशेषे च णमुल् । स्वपोषं पुष्णाति । धनपो- षम् । गोपोषम् ॥ अधिकरणे बन्धः । ३ । ४ । ४१ ॥ चक्रबन्धं बध्नाति चक्रे बध्नातीत्यर्थः ॥ संज्ञायाम् । ३ । ४ । ४२ ॥ बध्नातेर्णमुल् संज्ञायाम् ॥ क्रौञ्चबन्धं बद्धः । मयूरिकाबन्धम् । अट्टालिकाबन्धम् । बन्धविशेषाणां संज्ञा एताः ॥ कर्त्रो- र्जीवपुरुषयोर्नशिवहोः । ३ । ४ । ४३ ॥ जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरु- षवाहं वहति । • पुरुषो वहतीत्यर्थः ॥ ऊर्ध्वे शुषिपूर्योः । ३ । ४ । ४४ ॥ ऊर्ध्वे कर्तरि ॥ ऊर्ध्वशोषं शुष्यति । वृक्षादिरूर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वमुख एव घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः ॥ उपमाने कर्मणि च । ३।४।४५ ॥ चात्कर्तरि ॥ घृतनिधायं निहितं जलम् । घृतमिव सुरक्षितमित्यर्थः । अजकनाशं नष्टः । अजक इव नष्ट इत्यर्थः ॥ कषादिषु यथाविध्यनुप्रयोगः । ३ । ४ । ४६ ॥ यस्माण्णमुलुक्तः स एवानुप्र-