वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 576, कुल 835 में से
संदर्भ में पढ़ेंचादुत्तरपदादन्यतरस्यामनित्यसमासे । ६ । १ । १६९ ॥ नित्याधिकारविहितसमासा- दन्यत्र यदुत्तरपदमन्तोदात्तमेकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता वा स्यात् ॥ परमवाचा ॥ अञ्चेश्च्छन्दस्यसर्वनामस्थानम् । ६ । १ । १७० ॥ अञ्चेः परा विभक्तिरुदात्ता ॥ इन्द्रो दधीचः । चात्रिति पूर्वपदान्तोदात्तत्वं प्राप्तम् । तृतीयादिरित्यनुवर्तमाने असर्वनामस्थानग्रहणं शस्परिग्रहार्थम् । प्रतीचो बाहून् ॥ ऊडिदम्पदायप्पुम्रैद्युभ्यः । ६ । १ । १७१ ॥ एभ्यो- ऽसर्वनामस्थानविभक्तिरुदात्ता ॥ प्रष्ठौहः । प्रष्ठौहा ॥ ऊठ्युपधाग्रहणं कर्तव्यम् * ॥ इह मा भूत् । अक्षद्युवा । अक्षद्युवे । इदम्-एभिर्नूतनः । अन्वादेशे न । अन्तोदात्तादित्यनुवृत्तेः । न च तत्रान्तोदात्ताप्यस्तीति वाच्यम् । इदमोन्वादेशेऽशनुदात्तस्तृतीयादाविति सूत्रेणानु- दात्तस्य अशो विधानात् । प्र ते बभ्रू । माभ्यां गा अनु । पद्नोमासहृन्निश इति षट् पदा- दयः । पद्ध्यां भूमिः । दद्भिर्न जिह्वा । अहरहर्जायते मासिमासि । मनश्चिन्मे हृद आ । अप्- अपां फेनेन । पुम्-अभ्रातेव पुंसः । रै-राया वयम् । रायो धर्ता विवस्वतः : दिव्- उपत्वाग्ने दिवेदिवे ॥ अष्टनो दीर्घात् । ६ । १ । १७२ ॥ शसादिविभक्तिरुदात्ता ॥ अष्टा- भिर्दशभिः ॥ शतुरनुमो नद्यजादी । ६ । १ । १७३ ॥ अनुम् यः शतृप्रत्ययस्तदन्ताद- न्तोदात्तात्परा नदी अजादिश्च शसादिविभक्तिरुदात्ता स्यात् ॥ अच्छा रावं प्रथमा जानती । कृण्वते । अन्तोदात्तात्किम् ? दधती । अभ्यस्तानामादिरित्याद्युदात्तः । अनुमः किम् ? तुद- न्ती । एकादेशोऽत्र उदात्तः । अनुपदेशात्परत्वाच्छतुर्लसार्वधातुक इति निघातः ॥ उदा- त्तयणो हल्पूर्वात् । ६ । १ । १७४ ॥ उदात्तस्थाने यो यण् हल्पूर्वस्तस्मात्परा नदी शसादि- र्विभक्तिश्च उदात्ता स्यात् ॥ चोदयित्री सूनृतानाम् । एषा नेत्री । शतं देवाय कृण्वते स- वित्रे ॥ नोद्धात्वोः । ६ । १ । १७५ ॥ अनयोर्यणः परे शसादय उदात्ता न स्युः ॥ ब्रह्मब- न्ध्वा । सेदु श्रियै सुम्ने ॥ ह्रस्वनुड्भ्यां मतुप् । ६ । १ । १७६ ॥ ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्तः ॥ यो अद्भिमाँ उदनिमाँ इयर्ति । नुटः-अक्षण्वन्तः कर्णवन्तः सखायः । अन्तोदात्तात्किम् ? माघ्वा विददिषुमान् । स्वरविधौ व्यञ्जनमविद्यमानवदित्येतदत्र न । मरु- त्व इन्द्र । नियुत्वान्यायवागहि । रैशब्दाच्च * ॥ रेवाँ इन्द्रवतः ॥ नामन्यतरस्याम् । ६ । १ । १७७ ॥ मतुपि यो ह्रस्वस्तदन्तादन्तोदात्तात्परो नामुदात्तो वा ॥ चेतन्ती सुम- तीनाम् ॥ ड्याश्छन्दसि बहुलम् । ६ । १ । १७८ ॥ ड्याः परो नामुदात्तो वा ॥ देवसे- नानामभिमञ्जतीनाम् । वेत्युक्तेर्नेह । जयन्तीनां मरुतो यन्तु ॥ षट्त्रिचतुर्भ्यो हलादिः । ६ । १ । १७९ ॥ एभ्यो हलादिर्विभक्तिरुदात्ता ॥ आषड्भिर्हूयमानः । त्रिभिष्टं देव ॥ न गोश्वन्साववर्णराड्क्रुङ्क्रुद्भ्यः । ६ । १ । १८२ ॥ एभ्यः प्रागुक्तं न ॥ गवां शता । गोभ्यो गातुम् । शुनश्चिच्छेपम् । सौ प्रथमैकवचने अवर्णान्तात् । तेभ्यो द्युम्नम् । तेषां पाहि श्रुधी हवम् ॥ दिवो झल् । ६ । १ । १८३ ॥ दिवः परा झलादिर्विभक्तिर्नोदात्ता ॥ द्युभिर- क्तुभिः । झलिति किम् ? उप त्वाग्ने दिवेदिवे ॥ नृ चान्यतरस्याम् । ६ । १ । १८४ ॥ नृः परा झलादिर्विभक्तिर्वोदात्ता ॥ नृभिर्येमानः ॥ तित्स्वरितम् । ६ । १ । १८५ ॥ निगदव्या-