वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 578, कुल 835 में से
संदर्भ में पढ़ें( ५२६ ) सिद्धान्तकौमुद्याम्- कारणविकलतया चिरकालभावि कृच्छ्रयोगि च प्रतिबन्धि जायते । प्रतिबन्धि किम् ? मूत्रकृ- च्छ्रम् ॥ पदेऽपदेशे ।६।२।७ ॥ व्याजवाचिनि पदशब्दे उत्तरपदे पूर्वपदं प्रकृत्या तत्पुरुषे ? सूत्रपदेन प्रस्थितः । उच्चारपदेन । मूत्रशब्दो घञन्तः । उच्चारशब्दो घञन्तस्थाथा- दिस्वरेणान्तोदात्तः । अपदेशे किम् ? विष्णुपदम् ॥ निवाते वातत्राणे । ६ ।२।८ ॥ निवा- तशब्दे परे वातत्राणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या । कुटीनिवातम् । कुड्यनिवातम् । कुटीशब्दो गौरादिङीषन्तः । कुड्यशब्दो ड्यगन्तः । यगन्त इत्यन्ये । वातत्राणे किम् ? राजनिवाते वसति । निवातशब्दोऽयं रूढः पार्श्वे ॥ शारदेऽनार्तवे । ६ । २ । ९ ॥ ऋतौ भवमार्तवम् । तदन्यवाचिनि शारदशब्दे परे तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् ॥ रज्जुशारदमु- दकम् । शारदशब्दो नूतनार्थः । तस्यास्वपदविग्रहः । रज्जोः सद्य उद्धृतम् । रज्जुशब्दः सृजे- रसुन्चेत्याद्युदात्तो व्युत्पादितः । अनार्तवे किम् ? उत्तमशारदम् ॥ अध्वर्युकषाययोर्जातौ ।६।२।१० ॥ एतयोः परतो जातिवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् ॥ कठाध्वर्युः । दौवारिककषायम् । कठशब्दः पचाद्यजन्तः । तस्माद्वैशम्पायनाऽन्तेवासिभ्यश्चेति णिनिः कठचरकाल्लुगिति लुक् । द्वारि नियुक्त इति ठक्यन्तोदात्तो दौवारिकशब्दः । जातौ किम् ? परमाध्वर्युः ॥ सदृशप्रतिरूपयोः सादृश्ये । ६ । २ । ११ ॥ अनयोः पूर्वं प्रकृत्या ॥ पितृसदृशः । सादृश्ये किम् ? परमसदृशः । समासार्थोऽत्र पूज्यमानता न सादृश्यम् ॥ द्विगो प्रमाणे । ६ । २ । १२ ॥ द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् ॥ प्राच्यसप्तसमः । सप्त समाः प्रमाणमस्य । प्रमाणे लो द्विगोर्नित्यमिति मात्रचो लुक् । प्राच्यशब्द आद्युदात्तः । प्राच्यश्चासौ सप्तसमश्च प्राच्यसप्तसमः । द्विगो किम् ? व्रीहिप्रस्थः । प्रमाणे किम् ? परमसप्तसमम् ॥ गन्तव्यपण्यं वाणिजे ।६।२।१३ ॥ वाणिजशब्दे परे तत्पुरुषे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरम् ॥ मद्रवा- णिजः ॥ गोवाणिजः । सप्तमीसमासः । मद्रशब्दो रक्प्रत्ययान्तः । गन्तव्येति किम् ? परम- वाणिजः ॥ मात्रोपज्ञोपक्रमच्छाया ने नपुंसके । ६ । २ । १४ ॥ मात्रादिषु परतो नपुंसक- वाचिनि तत्पुरुषे तथा ॥ भिक्षायास्तुल्यप्रमाणं भिक्षामात्रम् । भिक्षाशब्दो गुरोश्च हल इत्यप्रत्ययान्तः । पाणिन्युपज्ञम् । पाणिनिशब्द आद्युदात्तः । नन्दोपक्रमम् । नन्दशब्दः पचाद्यजन्तः । इषुच्छायम् । इषुशब्द आद्युदात्तो नित्त्वात् । नपुंसके किम् ? कुड्यच्छाया ॥ सुखप्रिययोर्हिते । ६ । २ । १५ ॥ एतयोः परयोर्हितवाचिनि तत्पुरुषे तथा ॥ गमनप्रियम् । गमनसुखम् । गमनशब्दे लित्स्वरः । हिते किम् ? परमसुखम् ॥ प्रीतौ च ।६।२।१६ ॥ प्रीतौ गम्यायां प्रागुक्तम् ॥ ब्राह्मणसुखं पायसम् । छात्रप्रियोऽन- ध्यायः । ब्राह्मणछात्रशब्दौ प्रत्ययस्वरेणान्तोदात्तौ । प्रीतौ किम् ? राजसुखम् ॥ स्व स्वा- मिनि ।६।२।१७ ॥ स्वामिशब्दे परे स्ववाचि पूर्वपदं तथा ॥ गोस्वामी । स्वं किम् ? पर- मस्वामी ॥ पत्यावैश्वर्ये । ६ । २ । १८ ॥ दमूना गृहपतिर्दमे ॥ न भूवाक्चिद्विधिषु । ।६।२।१९॥ पतिशब्दे परे ऐश्वर्यवाचिनि तत्पुरुषे नैतानि प्रकृत्या ॥ भुवः पतिर्भूपतिः ।