वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 582, कुल 835 में से
संदर्भ में पढ़ें। ६।२।५५ ॥ सुवर्णपरिमाणवाचि पूर्वपदं वा प्रकृत्या धने ॥ द्वे सुवर्णे परिमाणमस्येति द्विसु- वर्णं तदेव धनं द्विसुवर्णधनम् । बहुव्रीहावपि परत्वाद्विकल्प एव । हिरण्यं किम् ? प्रस्थध- नम् । परिमाणं किम् ? काञ्चनधनम् । धने किम् ? निष्कमाला ॥ प्रथमोऽचिरोपस- म्पत्तौ ॥६।२।५६ ॥ प्रथमशब्दो वा प्रकृत्याऽभिनवत्वे ॥ प्रथमवैयाकरणः । सम्प्रति व्या- करणमध्येतुं प्रवृत्त इत्यर्थः । प्रथमशब्दः प्रथेरमजन्तः । अचिरेति किम् ? प्रथमो वैया- करणः ॥ कतरकतमौ कर्मधारये ।६।२।५७ ॥ वा प्रकृत्या ॥ कतरकठः । कर्मधारयग्र- हणमुत्तरार्थम् । इह तु प्रतिपदोक्तत्वादेव सिद्धम् ॥ आर्यो ब्राह्मणकुमारयोः ।६।२।५८ ॥ आर्यकुमारः । आर्यब्राह्मणः । आर्यो ण्यदन्तत्वादन्तस्वरितः । आर्यः किम् ? परम- ब्राह्मणः । ब्राह्मणादीति किम् ? आर्यक्षत्रियः । कर्मधारय इत्येव ॥ राजा च । ६।२।५९ ॥ ब्राह्मणकुमारयोः परतो वा प्रकृत्या कर्मधारये ॥ राजब्राह्मणः । राजकुमारः । योग- विभाग उत्तरार्थः ॥ षष्ठी प्रत्येनसि । ६।२।६० ॥ षष्ठ्यन्तो राजा प्रत्येनसि परे वा प्रकृत्या ॥ राजप्रत्येनाः । षष्ठी किम् ? अन्यत्र न ॥ क्ते नित्यार्थे ।६।२।६१ ॥ क्तान्ते परे नित्यार्थे समासे पूर्वं वा प्रकृत्या ॥ नित्यप्रहसितः । काला इति द्वितीयासमासोऽयम् । नित्य- शब्दस्त्यबन्त आद्युदात्तः । हसित इति थाथादिस्वरेणान्तोदात्तः । नित्यार्थे किम् ? मुहूर्तप्रहसितः ॥ ग्रामः शिल्पिनि । ६।२।६२ ॥ वा प्रकृत्या ॥ ग्रामनापितः । ग्राम- शब्द आद्युदात्तः । ग्रामः किम् ? परमनापितः । शिल्पिनि किम् ? ग्रामरथ्या ॥ राजा च प्रशंसायाम् ।६।२।६३ ॥ शिल्पिवाचिनि परे प्रशंसार्थं राजपदं वा प्रकृत्या ॥ राजना- पितः । राजकुलालः । प्रशंसायां किम् ? राजनापितः । शिल्पिनि किम् ? राजहस्ती ॥ आदिरुदात्तः ।६।२।६४ ॥ अधिकारोऽयम् ॥ सप्तमीहारिणौ धर्म्येऽहरणे ।६।२।६५॥ सप्तम्यन्तं हारिवाचि च आद्युदात्तं धर्म्ये परे ॥ देयं यः स्वीकरोति स हारीत्युच्यते । धर्म्यमित्याचारनियतं देयम् । मुकुटेकार्षापणम् । हलेद्विपदिका । संज्ञायामिति सप्तमीस- मासः । कारनाम्नि चेत्यलुक् । याज्ञिकाश्वः । वैयाकरणहस्ती । क्वचिदयमाचारो मुकुटादिषु कार्षापणादि दातव्यं याज्ञिकादीनां त्वश्वादिरिति । धर्म्येति किम् ? स्तम्बेरमः । अहरणे किम् ? वाडवहरणम् । वडवाया अयं वाडवः । तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थं यद्दीयते तद्धरणमित्युच्यते । परोऽपि कृत्स्वरो हारिस्वरेण बाध्यत इत्यहरण इति निषेधेन ज्ञाप्यते । तेन वाडवहार्यमिति हारिस्वरः सिध्यति ॥ युक्ते च । ६ । २ । ६६ ॥ युक्तवाचिनि समासे पूर्वमाद्युदात्तम् ॥ गोबल्लवः । कर्तव्ये तत्परो युक्तः ॥ विभाषाध्यक्षे । ६ । २।६७ ॥ गवाध्यक्षः ॥ पापं च शिल्पिनि । ६ । २ । ६८ ॥ पापनापितः । पापाणके इति प्रतिपदोक्तस्यैव ग्रहणात् षष्ठीसमासे न ॥ गोत्राऽन्तेवासिमाणवब्राह्मणेषु क्षेपे ।६।२।६९॥ मौर्याशौश्रुतः । सुश्रुतापत्यस्य मार्याप्रधानतया क्षेपः । अन्तेवासी-कुमारीदाक्षाः । ओदनपाणिनीयाः । कुमार्यादिलाभकामा ये दाक्षादिभिः प्रोक्तानि शास्त्राण्यधीयते ते एवं