वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 614, कुल 835 में से
संदर्भ में पढ़ें( १० ) अष्टाध्यायी- कारकमध्ये ॥ ७॥ कर्मप्रवचनीययुक्ते द्वितीया ॥ ८ ॥ यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ॥ ९ ॥ पञ्चम्यपाङ्परिभिः ॥ १० ॥ प्रतिनिधिप्रतिदाने च यस्मात् ॥ ११ ॥ गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि ॥ १२ ॥ चतुर्थी संप्रदाने ॥ १३ ॥ क्रियार्थो- पपदस्य च कर्मणि स्थानिनः ॥ १४ ॥ तुमर्थाच्च भाववचनात् ॥ १५ ॥ नमः स्वस्तिस्वाहास्व- धाऽलंवषड्योगाच्च ॥ १६ ॥ मन्यकर्मण्यनादरे विभाषाऽप्राणिषु ॥ १७ ॥ कर्तृकरणयोस्तृतीया ॥ ॥ १८ ॥ सहयुक्तेऽप्रधाने ॥ १९ ॥ येनाङ्गविकारः ॥ २०॥ १ ॥ इत्थंभूतलक्षणे ॥ २१ ॥ संज्ञोऽन्यतरस्यां कर्मणि ॥ २२ ॥ हेतौ ॥ २३ ॥ अकर्तर्यृणे पञ्चमी ॥ २४ ॥ विभाषागुणेऽ स्त्रियाम् ॥ २५ ॥ षष्ठी हेतुप्रयोगे ॥ २६ ॥ सर्वनाम्नस्तृतीया च ॥ २७॥ अपादाने पञ्चमी ॥ ॥ २८ ॥ अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते ॥ २९ ॥ षष्ठ्यतसर्थप्रत्ययेन ॥ ३० ॥ एनपा द्वितीया ॥ ३१ ॥ पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् ॥ ३२ ॥ करणे च स्तोकाल्प- कृच्छ्रकतिपयस्यासत्त्ववचनस्य ॥३३॥ दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् ॥ ३४ ॥ दूरान्तिकार्थेभ्यो द्वितीया च ॥ ३५ ॥ सप्तम्यधिकरणे च ॥ ३६ ॥ यस्य च भावेन भावलक्षणम् ॥ ३७ ॥ षष्ठी चानादरे ॥ ३८ ॥ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ॥ ३९ ॥ आयुक्तकुश- लाभ्यां चासेवायाम् ॥ ४० ॥ २ ॥ यतश्च निर्धारणम् ॥ ४१ ॥ पञ्चमी विभक्ते ॥ ४२ ॥ साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ॥ ४३ ॥ प्रसितोत्सुकाभ्यां तृतीया च ॥ ४४ ॥ नक्षत्रे च लुपि ॥ ४५ ॥ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ॥ ४६ ॥ संबोधने च ॥ ४७ ॥ सामन्त्रितम् ॥ ४८ ॥ एकवचनं संबुद्धिः ॥ ४९ ॥ षष्ठी शेषे ॥ ५० ॥ ज्ञोऽविदर्थस्य करणे ॥ ५१ ॥ अधीगर्थदयेशां कर्मणि ॥ ५२ ॥ कृञः प्रतियत्ने ॥ ५३ ॥ रुजार्थानां भाववचनाना- मज्वरेः ॥ ५४ ॥ आशिषि नाथः ॥ ५५ ॥ जासिनिप्रहणनाटकक्राथपिषां हिंसायाम् ॥ ५६ ॥ व्यवहृपणोः समर्थयोः ॥ ५७ ॥ दिवस्तदर्थस्य ॥ ५८ ॥ विभाषोपसर्गे ॥ ५९ ॥ द्वितीया ब्राह्मणे ॥ ६० ॥ ॥ ३ ॥ प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने ॥ ६१ ॥ चतुर्थ्यर्थे बहुलं छन्दसि ॥ ॥ ६२ ॥ यजेश्च करणे ॥ ६३ ॥ कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ॥ ६४ ॥ कर्तृकर्मणोः कृति ॥ ६५ ॥ उभयप्राप्तौ कर्मणि ॥ ६६ ॥ क्तस्य च वर्तमाने ॥ ६७ ॥ अधिकरणवाचिनश्च ॥ ॥ ६८ ॥ न लोकाव्ययनिष्ठाखलर्थतृनाम् ॥ ६९ ॥ अकेनोर्भविष्यदाधमर्ण्ययोः ॥ ७० ॥ कृत्यानां कर्तरि वा ॥ ७१ ॥ तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् ॥ ७२ ॥ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ॥७३॥ १३ ॥ (अनभिहितइत्यंतश्चप्रेष्यब्रुवोस्त्रयोदश) ॥ इति द्वितीयाध्यायस्य तृतीयः पादः ॥ ३ ॥ द्विगुरेकवचनम् ॥ १ ॥ द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ॥ २॥ अनुवादे चरणानाम् ॥ ३ ॥ अध्वर्युकतुरनपुंसकम् ॥ ४ ॥ अध्ययनतोऽविप्रकृष्टानाख्यानाम् ॥ ५ ॥ जातिरप्राणिनाम् ॥ ६ ॥ विशिष्टलिङ्गो नदीदेशोऽग्रामाः ॥ ७ ॥ क्षुद्रजन्तवः ॥ ८ ॥ येषां च विरोधः शाश्वतिकः ॥ ९ ॥ शूद्राणामनिरवसितानाम् ॥ १० ॥ गवाश्वप्रभृतीनि च ॥ ११ ॥ विभाषावृक्षमृगतृणधान्यव्यञ्जन- पशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् ॥ १२ ॥ विप्रतिषिद्धं चानधिकरणवाचि ॥ १३ ॥