वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 665, कुल 835 में से
संदर्भ में पढ़ेंचतुर्थोऽध्यायः । (५९) वह्नौरिमतोः संज्ञायां घादिषु [ ६ । ३ । ४३ ] नित्यं ह्रस्वार्थम् । नृनरयोर्वृद्धिश्च ॥ इति शार्ङ्गरवादिः ॥ ६ ॥ क्रौड्यादिभ्यश्च । ४ । १ । ८० ॥ क्रौडि लाडि व्याडि आपिशलि आप- क्षिति चौपयत चैटयत ( वैटयत ) सैकयत वैल्वयत सौधातकि । सूत युवत्याम् । भोज क्षत्रिये । यौतकि कौटि भौरिकि मौलिकि [ शाल्मलि ] शालास्थलि कापिष्ठलि गौकक्ष्य ॥ इति क्रौड्यादिः ॥ ७ ॥ अश्वपत्यादिभ्यश्च । ४ । १ । ८४ ॥ अश्वपति [ ज्ञानपति ] शतपति धन- पति गणपति [ स्थानपति यज्ञपति ] राष्ट्रपति कुलपति गृहपति [ पशुपति ] धान्यपति धन्व- पति [ बन्धुपति धर्मपति ] सभापति प्राणपति क्षेत्रपति ॥ इत्यश्वपत्यादिः ॥ ८ ॥ उत्सादिभ्योऽञ् । ४ । १ । ८६ ॥ उत्स उदपान विकर मिनद महानद महानस महाप्राण तरुण तलुन । बष्कयासे । पृथिवी [ धेनु ] पंक्ति जगती त्रिष्टुप् अनुष्टुप् जनपद भरत उशीनर ग्रीष्म पीलुकुण । उदस्थान देशे । पृषदंश भल्लकीय रथन्तर मध्यंदिन बृहत् महत् सत्त्वत् कुरु पञ्चाल इन्द्रावसान उष्णह् ककुम् सुवर्ण देव ग्रीष्मादच्छन्दसि ॥ इत्युत्सादिः ॥ ९ ॥ बाह्वादिभ्यश्च । ४ । १ । ९६ ॥ बाहु उपबाहु उपवाकु निवाकु शिवाकु वटाकु उशनिन्दु [ उपबिन्दु ] वृषली वृकला चूडा बलाका मूषिका कुशला भगला [ छगला ] ध्रुवका ( भ्रुवका ) सुमित्रा दुर्मित्रा पुष्करसद् अनुहरत् देवशर्मन् अभिशर्मन् ( भद्रशर्मन् सुश- र्मन् ) कुनामन् [ सुनामन् ] पञ्चन् सप्तन् अष्टन् । अमितौजसः सलोपश्च । सुधावत् उदञ्चु शिरस् माष शराविन् मरीची क्षेमवृद्धिन् शृङ्खलतोदिन् खरनादिन् नगरमर्दिन् प्राकारमर्दिन् लोमन् अजीगर्त कृष्ण युधिष्ठिर अर्जुन साम्ब गद प्रद्युम्न रक्तम् [ उदङ्क ] उदकः संज्ञायाम् । संभूयोम्भसोः सलोपश्च ॥ आकृतिगणोऽयम् ॥ तेन । सात्यकिः जांघिः ऐन्दशर्मिः आज- धेनविः इत्यादि ॥ इति बाह्वादयः ॥ १० ॥ गोत्रे कुञ्जादिभ्यः फञ् । ४ । १ । ९८ ॥ कुञ्ज ब्रध्न शङ्ख भस्मन् गण लोमन् शठ शाक शुण्डा शुभ विपाश् स्कन्द स्कम्भ ॥ इति कुञ्जादिः ॥ ११ ॥ नडादिभ्यः फक् । ४ । १ । ९९ ॥ नड चर [ वर ] बक मुञ्ज इतिक इतिश उपक [ एक ] लमक । शलङ्कु शलङ्कं च । सत्तल वाजप्य तिक । अभिशर्मन्वृषण्गणे । प्राण नर सायक दास मित्र द्वीप पिङ्गर पिङ्गल किङ्कर किङ्कल [ कातर ] कातल काश्यप [ कुश्यप } काश्य काल्य [ काव्य ] अज अमुष्य [ अमुष्म ] कृष्णरणौ ब्राह्मणवसिष्ठे । अमित्र लिगु चित्र कुमार । क्रोष्टु क्रोष्टं च । लोह दुर्ग स्तम्भ शिंशपा अग्र तृण शकट सुमनस् सुमत मिमत ऋच् जलंधर अध्वर युगंधर हंसक दण्डिन् हस्तिन् [ पिण्ड ] पञ्चाल चमसिन् सुकृत्य स्थिरक ब्राह्मण चटक बदर अश्वल खरप लङ्क इन्ध अस्त्र कामुक ब्रह्मदत्त उदुम्बर शोण अलोह दण्डप ॥ इति नडादिः ॥ १२ ॥