भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 675, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 675

पञ्चमोऽध्यायः । ( ६९ ) पञ्चमोऽध्यायः । उगवादिभ्यो यत् । ५ । १ । २ ॥ गो हविस् अक्षन् विष बर्हिस् अष्टका स्वधा युग मेधा स्तुच् । नाभि नभं च । शुनः संप्रसारणं वा च दीर्घत्वं नत्संनियोगेन चान्तोदात्तत्वम् । ॠक्सोनडुङ् च । कूप खद् दर खर असुर अध्वन् (अश्वन्) क्षर वेद बीज दीस (दीत) ॥ इति गवादिः ॥ १ ॥ विभाषा हविरपूपादिभ्यः । ५ । १ । ४ ॥ अपूप नन्दुल अभ्युप अभ्यूष अभ्योष अवोष अभ्येष पृथुक ओदन सूप पूप किण्व प्रदीप मुसल कटक कर्णवेष्टक इर्गल अर्गल । अन्नविकारेभ्यश्च । यूप स्थूणा दीप अश्व पत्र ॥ इत्यपूपादिः ॥ २ ॥ असमासे निष्कादिभ्यः । ५ । १ । २० ॥ निष्क पण पाद माष वाह द्रोण षष्टि ॥ इति निष्कादिः ॥ ३ ॥ गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् । ५।१।३९ ॥ अश्व अस्मन् गण ऊर्णा (उर्म) उषा भङ्गा क्षण (गङ्गा) वर्षा वसु ॥ इत्यश्वादिः ॥ ४ ॥ उद्धरति वहत्यावहति भाराद्वंशादिभ्यः । ५ । १ । ५० ॥ वंश कुटज वल्वज मूल स्थूणा स्थूण अक्ष अश्मन् अश्व श्वशृण इक्षु खट्वा ॥ इति वंशादिः ॥ ५ ॥ छेदांदिभ्यो नित्यम् । ५ । १ । ६४ ॥ छेद भेद द्रोह दोह नर्ति (नर्त) कर्ष तीर्थ संप्रयोग विप्रयोग प्रयोग विप्रकर्ष प्रेषण संप्रश्न विप्रश्न विकर्ष प्रकर्ष । विराग विरङ्गं च ॥ इति छेदादिः ॥ ६ ॥ दण्डादिभ्यो यः । ५ । १ । ६६ ॥ दंड मुसल मधुपर्क कशा अर्ध मेध मेधा सुवर्ण उदक वध युग गुहा भाग इम भङ्ग ॥ इति दण्डादिः ॥ ७ ॥

  • महानाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसंख्यानम् * । ५ । १ । ९४ ॥ महानाम्नी आदित्यव्रत गोदान ॥ इति महानाम्न्यादिः ॥ ८ ॥
  • अवान्तरदीक्षादिभ्यो डिनिर्वक्तव्यः ५ । १ । ९४ ॥ अवान्तरदीक्षा तिलव्रत देवव्रत ॥ इत्यवान्तरदीक्षादिः ॥ ९ ॥ व्युष्टादिभ्योऽण् । ५ । १ । ९७ ॥ व्युष्ट नित्य निष्क्रमण प्रवेशन उपसंक्रमण तीर्थ आस्तरण सङ्ग्राम संघात ॥ इति व्युष्टादिः ॥ १० ॥
  • अग्निपदादिभ्य उपसंख्यानम् * । ५ । १ । ९७॥ अग्निपद पीलुमूल (पीलु मूल) प्रवास उपवास आकृतिगण इति अग्निपदादिः ॥ ११ ॥ तस्मै प्रभवति संतापादिभ्यः । ५ । १ । १०१ ॥ संताप संनाह संग्राम संयोग संपराय संवेशन संपेष निष्पेष सर्ग निसर्ग विसर्ग उपसर्ग प्रवास उपवास संघात संवेष संवास संमोदन सक्तु । मांसौदनाद्द्विगृहीतादपि ॥ इति संतापादिः ॥ १२ ॥
  • तदप्रकरणे उपवस्त्रादिभ्य उपसंख्यानम् * । ५ । १ । १०५ ॥ उपवस्त्र प्राशितृ चूडा श्रद्धा ॥ इत्युपवस्त्रादिः ॥ १३ ॥