भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 693, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 693

भाष व्यक्तायां वाचि । ६१४ वर्ष स्नेहने ६१५ गेष्ट् अन्विच्छायाम् । ग्लेष्ट् इत्येके ॥ ६१६ पेष्ट् प्रयत्ने । ६१७ जेष्ट् ६१८ पेष्ट् ६१९ एष्ट् ६२० प्रेष्ट् गतौ । ६२१ रेष्ट् ६२२ हेष्ट् ६२३ हेष्टृ अव्यक्ते शब्दे । ६२४ कासृ शब्दकुत्सायाम् । ६२५ भासृ दीप्तौ । ६२६ णासृ ६२७ रासृ शब्दे । ६२८ णस कौटिल्ये । ६२९ म्यस भये । ६३० आङः शसि इच्छायाम् । ६३१ ग्रसु ६३२ ग्लसु अदने । ६३३ ईह चेष्टायाम् । ६३४ वहि ६३५ महि वृद्धौ । ६३६ अहि गतौ । ६३७ गर्ह ६३८ गह कुत्सायाम् । ६३९ बर्ह ६४० । बृह प्राधान्ये । ६४१ वर्ह ६४२ वह परिभाषणहिंसाच्छादनेषु । ६४३ प्लिह गतौ । ६४४ वैह ६४५ जेह ६४६ बाह प्रयत्ने ॥ जेह गतावपि ॥ ६४७ दाह निद्राक्षये ॥ निक्षेपे इत्येके ॥ ६४८ काशृ दीप्तौ । ६४९ ऊह वितर्के । ६५० गाहू विलोडने । ६५१ गूङ् गर्हणे । ६५२ ग्लह च । ६५३ घुषि कान्तिकरणे ॥ घष इति केचित् ॥ धुक्षादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ६५४ ब्रुषिँ अविशन्दने । ६५५ अक्षू व्याप्तौ । ६५६ तक्षू ६५७ त्वक्षू तनूकरणे । ६५८ उक्ष सेचने । ३५९ रक्ष पालने ६६० णिक्ष चुम्बने । ६६१ तृक्ष ६६२ स्तृक्ष ६६३ णक्ष गतौ । ६६४ वक्ष रोषे ॥ संघाते इत्येके ॥ ६६५ मृक्ष संघाते ॥ म्रक्ष इत्येके ॥ ६६६ तक्ष त्वचने । ६६७ सूक्ष आदरे ॥ ६६८ काक्षि ६६९ वाक्षि ६७० माक्षि काङ्क्षायाम् । ६७१ द्राक्षि ६७२ ध्राक्षि ६७३ ध्वाक्षि घोरवासिते च । ६७४ चूष पाने । ६७५ तूष तुष्टौ । ६७६ पूष वृद्धौ । ६७७ मूष स्तेये । ६७८ लूप ६७९ रूप भूषायाम् ६८० ग्रूप प्रसवे । ६८१ यूष हिंसायाम् ६८२ जूष च । ६८३ भूष अलंकारे । ६८४ ऊष रुजायाम् । ६८५ ईष उञ्छे । ६८६ कष ६८७ खष ६८८ शिष ६८९ जष ६९० झष ६९१ शष ६९२ वष ६९३ मष ६९४ रुष ६९५ रिष हिंसार्थाः ६९६ भष भर्त्सने । ६९७ उष दाहे । ६९८ जिषु ६९९ विषु ७०० मिषु सेचने । ७०१ पुष पुष्टौ । ७०२ श्रिषु ७०३ श्लिषु ७०४ प्रुषु ७०५ प्लुषु दाहे । ७०६ पृषु ७०७ वृषु ७०८ मृषु सेचने ॥ मृषु सहने च । इतरौ हिंसासंक्लेशनयोश्च ॥ ७०९ घृषु संघर्षे । ७१० हृषु अलीके । ७११ तुस ७१२ हस ७१३ हुस ७१४ रस शब्दे ७१५ लस श्लेषणक्रीडनयोः । ७१६ घस्लृ अदने । ७१७ जर्ज ७१८ चर्च ७१९ झर्झ परिभाष- णहिंसातर्जनेषु । ७२० पिस्तृ ७२१ पेस्तृ गतौ । ७२२ हसे हसने । ७२३ णिश समाधौ । ७२४ मिश ७२५ मश शब्दे रोषकृते च । ७२६ शव गतौ ७२७ । शश प्लुतगतौ । ७२८ शसु हिंसायाम् । ७२९ शंसु स्तुतौ ॥ दुर्गतावित्येके ॥ ७३० चह परिकल्पने ७३१ मह पूजायाम् । ७३२ रह त्यागे । ७३३ रहि गतौ । ७३४ दह ७३५ दृहि ७३६ बृह ७३७ बृहि वृद्धौ ॥ बृहि शब्दे च बृहिर् चेत्येके ७३८ तुहिर् ७३९ दुहिर् ७४० उहिर् अर्दने । ७४१ अर्ह पूजायाम् ॥ घुषिरादय उदात्ता उदात्तेतः परस्मै- भाषाः ॥ घसिस्त्वनुदात्तः ॥ ७४२ द्युत दीप्तौ । ७४३ श्चिता वर्णे । ७४४ ञिमिदा स्नेहने ७४५ ञिष्विदा स्नेहनमोचनयोः ॥ मोहनयोरित्येके । ञिश्विदा चेत्येके । ७४६ ॥

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध) · पृष्ठ 693, कुल 835 में से · BharatKosha