वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 701, कुल 835 में से
संदर्भ में पढ़ेंभाषाः ॥ १२७ षू प्रेरणे । १२८ कॄ विक्षेपे । १२९ गृ निगरणे ॥ उदात्ताः परस्मै- भाषाः ॥ १३० दृङ् आदरे । १३१ धृङ् अवस्थाने ॥ अनुदात्तावात्मनेभाषौ ॥ ॥ १३२ ॥ प्रच्छ ज्ञीप्सायाम् ॥ वृत्त् ॥ १३३ सृज विसर्गे । १३४ टुमस्जौ शुद्धौ । १३५ रुजो भंगे । १३६ भुजो कौटिल्ये । १३७ छुप स्पर्शे । १३८ रुश १३९ रिश हिंसायाम् । १४० लिश गतौ । १४१ स्पृश संस्पर्शने । १४२ विच्छ गतौ । १४३ विश प्रवेशने । १४४ मृश आमर्शने । १४५ णुद प्रेरणे । १४६ षद्लृ विशरणगत्यवसाद- नेषु । १४७ शद्लृ शातने ॥ पृच्छत्यादयोनुदात्ता उदात्तेतः परस्मैभाषाः । विच्छ- स्तूपात्तः ॥ १४८ मिल संगमने ॥ उदात्तः स्वरितेदुभयतोभाषः ॥ १४९ मुञ्च्लृ मोक्षणे । १५० लुप्लृ छेदने । १५१ विद्लृ लाभे । १५२लिप उपदेहे । १५३ षिच क्षरणे॥ मुचादयोनुदात्ताः स्वरितेत उभयतोभाषाः । विन्दतिस्तूदात्तः ॥ १५४ कृती छेदने । उदात्त उदात्तेत्परस्मैपदी १५५ खिद परिघाते ॥ अनुदात्त उदात्तेत्परस्मैपदी ॥ १५६ पिश अवयवे ॥ उदात्त उदात्तेत्परस्मैपदी । वृत्त् ॥ इति शविकरणास्तुदादयः ॥ ६ ॥ १ रुधिर् आवरणे । २ भिदिर् विदारणे । ३ छिदिर् द्वैधीकरणे । ४ रिचिर् विरेचने । ५ विचिर् पृथग्भावे । ६ क्षुदिर् संपेषणे । ७ युजिर् योगे ॥ रुधादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः ॥ ८ उञ्छिर् दीप्तिदेवनयोः । ९ उत्तृदिँ हिंसानादरयोः ॥ उदात्तौ स्वरितेतावुभयतोभाषौ ॥ १० कृती वेष्टने । उदात्त उदात्तेत्परस्मैपदी ॥ ११ जिइन्धी दीप्तौ ॥ उदात्तोऽनुदात्तेदात्मनेपदी ॥ १२ खिद दैन्ये । १३ विद विचा- रणे ॥ अनुदात्तावनुदात्तेतावात्मनेपदिनौ ॥ १४ शिष्लृ विशेषणे । १५ पिष्लृ संचूर्णने । १६ भञ्जो आमर्दने । १७ भुज पालनाभ्यवहारयोः ॥ शिषादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ १८ तृह १९ हिंसि हिंसायाम् । २० उन्दी क्लेदने । २१ अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु । २२ तञ्चू संकोचने । २३ ओविजी भय- चलनयोः । २४ वृजी वर्जने । २५ पृची संपर्के ॥ तृहादय उदात्ता उदात्तेतः परस्मै- पदिनः ॥ वृत्त् ॥ इति श्नम्विकरणा रुधादयः ॥ ७ ॥ १ तनु विस्तारे । २ षणु दाने । ३ क्षण हिंसायाम् । क्षिणु च । ४ ऋण गतौ । ५ तृणु अदने । ६ घृणु दीप्तौ ॥ तनादय उदात्ताः स्वरितेत उभयतोभाषाः ॥ ७ वेञ् याचने । ८ मनु अवबोधने ॥ उदात्तावनुदात्तेतावात्मनेभाषौ ॥ ९ डुकृञ् करणे ॥ अनुदात्त उभयतोभाषः ॥ इति उविकरणास्तनादयः ॥ ८ ॥